व्यक्तं पश्यन्ति रूपाणि संग्रामं समुपस्थितम्”[१] ॥
आदिपर्वणि गरुडयुद्धनिमित्तम् ।
"इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात् ततः ।
सधूमान्यपतन् सार्चिर्दिवोल्का नभसश्च्युताः ॥
तथा वसूनां रुद्राणामादित्यानां च सर्वशः ।
साध्यानां मरुतां चैव ये चान्ये देवता गणाः ।
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्"[२] ।
अरण्यकाण्डे रामवाक्यम् ।
“सधूमा इषवश्चेमे महायुद्धाभिनन्दिनः ।
रुक्मपृष्टमिदं चापि चापं विस्फुरतीव मे ॥
संप्रहारं सुतुमुलो भवितेह न संशयः” [३]
द्रोणपर्वणि द्रोणवधनिमित्तम् ।
"जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष"[४]।
तत्रैव द्रोणवाक्यम् ।
"उत्पतन्त इमे बाणा धनुः प्रस्फुरतीव मे ।
योगमस्त्राणि नेच्छन्ति क्रूरं मे वर्त्तते मनः"[५]॥
क्रूरं संयोमस्त्राणि नेच्छन्तीति पराजयनिमित्ताभिधानम् ।
स्कन्दपुराणे देवासुरयुद्धनिमित्तम् ।
धूमायते इन्द्रवज्रम् ........।
तथा ।
नागा इव शराश्चास्य निर्वेमुर्ज्वलनं मुखे ।