पृष्ठम्:अद्भुतसागरः.djvu/४९

पुटमेतत् सुपुष्टितम्
अद्भुतसागरे।
 तत् तत् सर्वमुपादेयमेष दानविधिः स्मृतः ॥
 दद्यात् तु गुरवे ग्रामान् धेनुं वा गोयुगं तथा ।
 अलङ्कारैश्च संपूज्य प्रीणयेत् प्रीतमानसः ॥
 अनेन विधिना भौममद्भुतं शमयेद् गुरुः ।
 एष एव विधिज्ञेयो वियत्यप्यद्भुताश्रये ॥
 विशेषोऽत्र त सावित्र्या दशलक्षं तु होमयेत् ।
 होमं समाहितमनाः कुर्याच्च घृतकम्बलम् ॥
 धेनूनां द्वादश ज्ञेयं शतं निष्कसमायुतम् ।
 गुरवे दीयमानं तच्छमयेदम्बराद्भुतम् ।।
 दिव्याद्भुतेषु कर्त्तव्यः क्व निद्धोमः समाहितैः ।
 गोसहस्रं तु दातव्यं गुरवे दक्षिणाविधौ ।
 एष प्रोक्तो विधिः सम्यग दिव्यारिष्टविपद्धरः ।
 सुभिक्षक्षेमसम्पत्त्या पूजनं पुष्टिवर्धनम् ॥

अल्पफलदिव्योत्पाते च कोटिहोमाशक्तावमृताख्या महाशान्ति: कर्तव्या।

यदुक्तं गार्गीये ।

 प्रयतस्तेषु सर्वेषु दिव्येष्वद्भुतकेष्वपि ।
 महाशान्तिं बुधः कुर्यादमृतां विश्वभेषजम् ॥

बार्हस्पत्येऽथर्वस्मृतौ च ।

 अद्भुतेष्वपि सर्वेषु त्रिविधेषु न संशयः ।
 दिव्यान्तरिक्षभौमेषु अमृता शंसिता बुधैः ॥
 सर्वाद्भुतप्रशमनीं सर्वविघ्नविनाशिनीम् ।
 शान्तिमेवामृतां कुर्यादायुरारोग्यवर्धनीम् ॥
 अमृतायाः प्रभावेण देवाश्चामर्त्त्यतां गताः ।
 तेनामृतां सदा कुर्याद्येनारोग्यमवाप्यते ॥