आयुधानि च दीप्यन्ते सधूमं शक्रनन्दन ॥
वराहसंहितायाम् ।
क्वणितं मरणायोक्तं पराजयाय प्रवर्त्तनं कोशात् ।
स्वयमद्भुते च युद्धं ज्वलिते विजयो भवति खड्गे ॥
विष्णुधर्मेत्तरे ।
मही घृतसगन्धा च यत्रोत्पलसुगन्धिनः ।
वर्णतश्चोत्पलाकाराः सवर्णा गगनस्य च ॥
खङ्गाः शस्यन्त इति सम्बन्धः ।
वराहसंहितायाम् ।
करवीरोत्पलगजमदघृतकुङ्कुमकुन्दचम्पकसगन्धः
शुभदोऽनिष्टो गोमूत्रपङ्गमेदःसदृशगन्धः ॥
कूर्मवासकक्षारोपमश्च भयदुःखदो भवति गन्धः ।
वैडूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः ॥
विष्णुधर्मोत्तरे ।
समाङ्गुलस्थाः शस्यन्ते व्रणाः खड्गेषु भार्गव ।
श्रीवृक्षपर्वताकारा लिङ्गपद्मनिभाश्च ये ॥
मङ्गलानां तथाऽन्येषां सदृशा ये च भार्गव ।
काकोलूकसवर्णाभा विषमाङ्गुलिसंस्थिताः ॥
वंशानुगाः प्रभूताश्च न शस्तास्ते कदाचन ।
वराहसंहितायाम् ।
कृकलासकाककङ्कक्रव्यादकबन्धवृश्चिकाकृतयः ।
खड्गे व्रणा न शस्ता वंशानुगताः प्रभूताश्च ॥
श्रीवृक्षवर्धमानातपत्रशिवलिङ्गकुण्डलाब्जानाम् ।
सदृशा व्रणाः प्रशस्ता ध्वजायुधस्वस्तिकानां च ॥
पत्रमरणं धनाप्तिर्धनहानिः सम्पदश्च बन्धश्च ।