पुटमेतत् सुपुष्टितम्
४८३
दीव्यस्त्रीपुरुषदर्शनाद्भुतावर्त्तः ।
स्कन्दपुराणे त्रिपुरदाहनिमित्तम् ।
अपवादाश्च श्रूयन्ते पुण्याहोदीरणेषु च ।
मत्स्यपुराणे ।
"हिंसहिंसेति श्रूयन्ते गिरश्च भयदाः पुरे"[४] ।
स्कन्दपुराणे प्रह्लादपराजयनिमित्तम् ।
निर्वाताः साशनिरवा गिरो हाहा रवा दिशः ।
उत्तरकाण्डे शैलृषसुतानां वधनिमित्तम् ।
“प्रादुरासीन्महाञ्छब्दः खे शरीरं न दृश्येत ।
सर्वेषु राजन् देशेषु तदद्भुतमिवाभवत्" [५] ॥
गदापर्वणि दुर्योधनवधनिमित्तम् ।
"अशरीरा महानादाः श्रूयन्ते स्म तदा नृप"[६] ।
तत्रैव पाण्डवशिविरक्षयनिमित्तम् ।
"यक्षाणां राक्षसानां च पिशाचानां तथैव च ।
अन्तरिक्षे महानादः श्रूयते भरतर्षभ"[७] ॥
स्कन्दपुराणे देवानां परजयनिमित्तम् ।
मुहूर्त्तेन चिरं कालं भवता चोभयं सुराः ।
पराभवं च शत्रूणां भविष्यति महद्भयम् ॥
इत्येवं नभसो वाचो महागम्भीरनिःस्वनाः ।