नारदस्तु ।
आदित्यचन्द्रयोर्मध्ये छिद्रं पश्यति यो नरः ।
उत्पातमीदृशं दृष्ट्वा मासमेकं स जीवति ॥
इमा रुद्रेति मन्त्रेण जुहुयात् सर्पिषा हुतिम् ।
आहुती द्वे सहस्रे तु होमश्च कथितो भवेत् ॥
वृषभं दक्षिणां दद्यात् ततः संपद्यते शुभम् ।
मोक्षधर्मे तु चन्द्रसूर्ययोश्छद्रदर्शने सप्ताहरिष्टत्वमुक्तम् ।
शीर्णनाभिं तथाऽवक्रं छिद्रं सोमं प्रपश्यति ।
तथैव च सहस्राशुं सप्तरात्रेण मृत्युभाक् ॥
शीर्णनाभिमिति मध्यशून्यमवक्रं पूर्णम् ।
वटकणिकायां वराहः ।
एकश्चन्द्रविकारं यः पश्यति न स चिरं जीवेत् ।
बृहत्संहितायां च ।
शृङ्गेनैकेनेन्दुं विलीनमथ वाऽप्यवाङ्मुखमशृङ्गम् ।
सम्पूर्णं चाभिनवं दृष्ट्वा यो जीविताद्ग्रस्येत् ॥
गार्गीये ।
एकशृङ्गमशृङ्गं वा विशीर्णं पूर्णमेव च ।
प्रतिपद्युदितं चन्द्रं यः पश्यति स नश्यति ॥
प्रतिपच्चन्द्रोदयश्चन्द्राद्भुतावर्त्ते[१] उक्तः । चरकः ।
मृण्मयीमिव यः पात्रीं कृष्णाम्बरसमावृताम् ।
आदित्यमीक्षते श्वभ्रं चन्द्रं वा स न जीवति ॥
अपर्वणि यदा पश्येत् सूर्याचन्द्रमसोर्ग्रहम् ।
व्याधितोऽव्याधितो वाऽपि तदन्तं तस्य जीवितम् ॥
- ↑ द्रष्टव्याऽस्यैव ग्रन्थस्य ३३ पृ. ९ पं ।