कृष्णं वा यदि वा शुक्लं सोऽग्नौ वसति सप्तमीम् ॥
सप्तमीमिति सप्तमीं निशाम् ।
आदित्यपुराणे ।
स वायुगात्रं त्वथ कृष्णरक्तं त्वाकस्मिकं स्वं च पुराग्रसंस्थम् ।
नराकृतिं वीक्ष्य त्रिभिस्तु वर्षैः सोत्कण्ठितो याति तनुं विहाय ॥
चरकः ।
आह्वयन्तं समीपस्थं स्वजनं जनमेव वा ।
महामोहावृतम्मन्यः पश्यन्नपि न पश्यति ॥
आदित्यपुराणे ।
दिवोदकेनैव मुखं प्रपूर्य फूत्कृत्य तन्मध्यगतं न पश्येत् ।
सुरेन्द्रचापं त्वथ वीक्षितं चेन्मासैश्चतुर्भिः किल संप्रयाति ॥
वीक्षितं पूर्वदृष्टम् ।
कालावल्यां च ।
प्रत्यर्कं वीक्ष्यते यस्तु विमेघेऽहनि यत्नतः ।
आपूर्य वदनं तोयैः फूत्कृतं वीक्षते क्रमात् ॥
तन्मध्ये दृश्यते नूनं धनुरिन्द्रस्य शोभनम् ।
तस्मिन्नदृश्यमाने तु षण्मासे मरणं भवेत् ॥
येन प्रत्यर्कं फूत्कृत्य जलकणौघमध्ये शक्रधनुः प्रत्यहं दृश्यते स यदा तन्न पश्यति तदा तस्य रिष्टं भवतीत्यर्थः ।
लिङ्गपुराणब्रह्माण्डपुराणयोः ।
दिवा वा यदि वा रात्रौ प्रत्यक्षे यो निहन्यते ।
हन्तारं न स पश्येच्च स गतायुर्न जीवति ॥
मार्कण्डेयपुराणे त्वस्यैव स्वप्ताहरिष्टत्वमुक्तम् ।
यश्चातिहन्यते भूतो दृट्वा रात्रावथो दिवा ।
स मृत्युं सप्तरात्रेण नरः प्राप्नोत्यसंशये ॥