कालावल्याम् ।
पश्येन्मेलापकं क्वापि हंसकाकशिखण्डिनाम् ।
गम्यते तेन मासेन मृत्योर्वदनकोटरम् ॥
आदित्यपुराणे ।
देशे क्व चिद्धंसमयूरकाकसंङ्घातमुग्रं युगपद्रटन्तम् ।
मासि प्रपूर्णे स च संप्रयाति तां खण्डितां स्वां प्रकृतिं परां तु ॥
पश्येदिति सम्बन्धः ।
मयूरचित्रे ।
खरोष्ट्राश्वशृगालाश्च वृक्षस्योपरिसंस्थिताः ।
कथयन्ति तदा मृत्युं तत्र मासान्न संशयः ॥
कालावल्याम् ।
इन्द्रनीलनिभच्छाया मुक्ताफलविभूषिताः ।
शुक्लास्तस्था हि दृश्यन्ते यत्र गा व्योम्नि सन्निधौ ॥
तेषु वा दृश्यमानेषु षण्मासैर्मरणं दिशेत् ।
मार्कण्डेयपुराणे तु ।
स्ववस्त्रममलं शुक्लं रक्तं पश्येत् तथाऽसितम् ।
यः पुमान् मृत्युमापन्नं तस्यापि हि विनिर्दिशेत् ॥
कालावल्याम् ।
तत्राब्जं तु विजानीयात् षोडशच्छदमैन्दवम् ।
द्वादशारं भवेत् सौरमित्यागमगतिस्त्वियम् ॥
तत्र चत्वारि दृश्यानि दलान्यङ्गुलिपीडनात् ।
खद्योतद्युतिलावण्यभाजितावर्णयोरपि ॥
सोमाधो भ्रूलतापाङ्गप्राणान्तिकदले क्रमात् ।
विनष्टे निर्दिशेन्मृत्युं षड्भिर्युग्मैकमासतः ।
सोमाध इति बाम इत्यर्थः ।