सुतस्तु
शृणोति विविधान् शब्दान् यो दिव्यानसतो बहून् ।
समुद्रपुरमेघानामसम्पत्तौ च तत्स्वनात् ॥
तत्स्वनान् वा न गृह्णीते गृह्णीते वाऽन्यशब्दवत् ।
ग्राम्यारण्यस्वनाँश्चापि विपरीतान् शृणोत्यपि ॥
द्विषच्छन्देषु रमते सुहृच्छब्देषु कुप्यति ।
यश्चाकस्मान्नशृणोति तं ब्रुवन्ति गतायुषम् ॥
चरकः ।
अशब्दस्य च यः श्रोता शब्दोऽन्यश्च न बुध्यते ।
द्वावप्येतौ यथा प्रेतौ तथा ज्ञेयौ विजानता ॥
मार्कण्डेयपुराणे ।
पिधाय कर्णौ निर्घोषं न शृणोत्यात्मसम्भवम् ।
नश्यते चक्षुषो ज्योतिर्यस्य सोऽपि न जीवति ॥
पराशरः ।
श्रोत्रच्छिद्रयोरङ्गुल्यग्रावनद्धयोरन्तर्नादाश्रवणं सद्यो मरणाय ।
चरकस्तु ।
संवृत्याङ्गुलिभिः कर्णौ ज्वालाशब्दं य आतुरः ।
न शृणोति शुभं तत्र बुद्धिमान् परिवर्जयेत् ॥
कालावल्याम् ।
रत्यन्ते यदि वाऽकस्माद्घण्टानादोऽनुभूयते ।
येन तस्य विजानीयान्मरणं पाञ्चमासिकम् ॥
अथ घ्राणरिष्टं विष्णुधर्मोत्तरज्योतिःपराशरयोः ।
शोभनाशोभनघ्रेयग्रहणे तु विपर्ययः ।
सुरभीनामपां द्वेषो दुर्गन्धानामपीष्टता ॥
असुक्षयाय निर्दिष्टः प्रकृतेर्विकृतिर्यदि ।