चरकस्तु ।
विपर्ययेण यो विद्याद्गन्धानां साध्वसाधुताम् ।
न चेत् तान् सर्वशो विद्युस्तं विद्धि च गतायुषम् ॥
सुश्रुतस्तु ।
सुरभिं दूरभिं चेति दूरभिं सुरभिं तथा ।
यो वै गन्धं न गृह्णाति शान्तदीपे च मानवः ॥
स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ।
मोक्षधर्मे तु ।
पूतिगन्धमुपघ्रति सुरभिं प्राप्य यो नरः ।
देवतायतनस्थस्तु सप्तरात्रेण मृत्युभाक् ॥
देवलः ।
दीपगन्धं च नापैति विद्यान्मृत्युमुपस्थितम् ।
लिङ्गपुराणब्रह्माण्डपुराणयोरप्येवम् । मार्कण्डेयपुराणे तु ।
दीपादिगन्धं नो वेत्ति.......- इति विशेषः ।
विष्णुधर्मोत्तरे ।
निर्वाणाद्दीपगन्धं तु यस्तु नाघ्राति मानवः ।
सप्ताहेन तु धर्मज्ञाः पश्यन्त्यर्कसुतं ध्रुवम् ॥
पराशरः ।
निर्वाणाद्दीपगन्धस्याघ्राणे सप्ताहात्-इति ।
अथ जिह्वारिष्टं विष्णुधर्मोत्तरज्योतिःपराशरयोः ।
षण्णां रसानां पर्यासमिष्टानिष्टविपर्ययः ।
अभक्ष्यलौल्यमत्यर्थं मरणायोपजायते ॥
सुश्रुतः ।
विपरीतेन गृह्णाति रसान् यश्चोपयोजितान् ।
यो वै रसान् न संवेत्ति तं ब्रुवन्ति गतायुषम् ॥