अथ त्वग्रिष्टं ज्योतिःपराशरविष्णुधर्मोत्तरयोः ।
श्लक्ष्णं खरं खरं श्लक्ष्णं शीतोष्णस्य विपर्ययम् ।
अकस्माद्वेत्ति यो देही दुर्लभं तस्य जीवितम् ॥
चरकस्तु ।
उष्णान् शीतान् खरान् श्लक्ष्णान् मृदूनपि सुदारुणान् ।
स्पर्श्यान् स्पृष्ट्वा ततोऽत्यर्थं मुमूर्षुस्तेष्वमन्यत ॥
सुश्रुतस्तु ।
यस्तूष्णमिति गृह्णाति शीतमुष्णं च शीतवत् ।
संजातशीतपिटको यश्च दाहेन पीड्यते ॥
उष्णगात्रोऽतिमात्रं च यः शीतेन प्रवेपते ।
प्रहारं नाभिजानाति स गच्छेद्यमशासनम् ॥
कालावल्याम् ।
खरशीतोष्णरूक्षादिस्पर्शश्चापि विहन्यते ।
गम्यते तेन मासेन मृत्योर्वदनकोटरम् ॥
ज्योतिःपराशरविष्णुधर्मोत्तरयोः ।
स्पर्शदृष्टिरसघ्राणशब्दचेष्टाविपर्ययः ।
दृश्यते हि मुमूर्षाणां स्वस्थातुरशरीरिणाम् ॥
चरकस्तु ।
शब्दः स्पर्शो रसो गन्धो रूपं चेष्टा विचिन्तितम् ।
उत्पद्यन्ते शुभान्येव प्रतिकर्मप्रवृत्तिषु ॥
इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम् ।
प्रतिकर्मप्रवृत्तिष्विति तदर्थसकलधर्मप्रवृत्तिष्वित्यर्थः ।
पराशरः ।
यो न वेत्तीन्द्रियग्राह्यं वेत्ति वाऽतीन्द्रियं नरः ।
तपोयोगादृते देही देहमन्यं प्रयात्यसौ ॥