बृहद्यात्रायां वराहः ।
छायाऽशिरष्का कचधूमनाशः खण्डं पदं देहजघोषहानिः ।
आहारशीलाकृतिवैकृतं च प्राप्तं कृतान्तं कथयन्ति तज्ज्ञाः ॥
चरकः ।
यस्य गोमयचूर्णाभं तूर्णं मूर्धनि जायते ।
सस्नेहं च भवेत् तत्र मासान्तं तस्य जीवितम् ॥
पराशरस्तु ।
गोमायचूर्णतुल्यरजसोऽङ्गेभ्य उत्तमाङ्गात् प्रवर्त्तनं पञ्चमे ।
कालावल्याम् ।
कमारुह्य व्रजेद्वेगी कृकलासस्तु यस्य हि ।
वर्णत्रयं बिभर्त्त्याशु तन्नाशः पाञ्चमासिकः ॥
कं शिरः ।
आदित्यपुराणे तु ।
यदा तु पीतारुणकृष्णवर्णं ब्रह्मद्वारे कृकलासं प्रपश्येत् ।
तदा स वै तच्छरीरं जहाति बालं त्वनाथेन भयादरण्ये ॥
कृकलासप्रकरणे वसन्तराजः ।
पतव्यकस्मात् तु स यस्य मूर्ध्नि शिवाय तस्याद्भुतशान्तिरुक्ता ।
शान्तिः चतुष्पदवैकृते विहिता ।
पराशरः ।
काकस्येनगृध्रादीनां क्रव्यभुजां पक्षिणां वाऽकस्माच्छिरोऽभिलयनं षष्ठे ।
विष्णुधर्मोत्तरे तु ।
क्रव्यादाः पक्षिणो यस्य मूर्ध्नि लीयन्ति वै द्विजाः ।
काकस्येनादयस्तस्य षष्ठे मरणमादिशेत् ॥
देवलस्तु ।
काकः कपोतो गृध्रो वा निलीनो यस्य मूर्धनि ।
क्रव्यादाः पक्षिणश्चैव षण्मासान् न स जीवति ॥