मार्कण्डेयपुराणे ।
गृध्रः कपोतः काको वा वायसो वाऽऽपि मूर्धनि ।
क्रव्यादो वा खगो लीनः षण्मासं न निवर्त्तते ॥
चरकः ।
लेखाभिश्चन्द्रवक्त्राभिर्ललाटमुपलीयते ।
यस्य तस्यायुषः षड्भिर्मासैरन्तं समादिशेत् ॥
धमनीनामपूर्वाणां जालमत्यर्थशोभनम् ।
ललाटे दृश्यते यस्य षण्मासान् न स जीवति ॥
ललाटे वस्तिशीर्षे वा नीला यस्य प्रकाशते ।
राजी बालेन्दुकुटिला न सजीवितुमर्हति ॥
चरकः ।
भ्रृवोर्वा यदि वा मूर्ध्नि सीमन्तावर्त्तकान् बहून् ।
अपूर्वानकृताव्यक्तान् दृष्ट्वा मरणमादिशेत् ॥
त्र्यहमेते न जीवन्ति लक्षणेनान्तरा जनाः ।
अरोगाणां पुनस्तेतत् षड्रात्रं परमुच्यते ॥
चरकः ।
यस्य चेत् पक्ष्माणि जटाबद्धानि स्युः स परासुरिति विन्द्यात् ।
तथा ।
जटीभूतानि पक्ष्माणि दृष्टिश्चापि निगृह्यते ।
यस्य जन्तोर्न तं धीरो भेषजेनोपपादयेत् ॥
यस्य सूनानि वर्ष्माणि न समायान्ति शुप्यतः ।
चक्षुषी चोपदिह्येते यथा प्रेतस्तथैव सः ॥
सूनानि उच्छ्वसितानि । वर्ष्माणि नयनोपरिष्टानि न समायान्ति सम्यक् संपूर्यन्ते ।
उपदिह्येते उपचिते भवतः ।
विष्णुधर्मोत्तरे ।
अवघट्टनं नेत्रस्य विना रोगं यदा भवेत् ।