देवलः ।
यस्य वै भुक्तमात्रस्य हृदयं पीड्यते क्षुधा ।
जायते दन्तहर्षश्च तं गतायुषमादिशेत् ॥
मार्कण्डेयपुराणे तु ।
यस्य वै स्नानमात्रस्य हृदयं पीड्यते भृशम् ।
जायते दन्तहर्षश्च तं गतायुषमादिशेत् ॥
मार्कण्डेयपुराणेऽप्येवम् ।
लिङ्गपुराणे तु ।
यस्य वै स्नानमात्रस्य हृत्पादमवशुष्यति ।
पिबतश्च जलं शोषो दशाहं सोऽपि जीवति ॥
पराशरः ।
सद्यः स्नानानुलिप्तस्य हृत्पाणिपादाशुशोषणं त्र्यहात् ।
विष्णुधर्मोत्तरे ।
सद्यः स्नानानुलिप्तस्य हृत्पादशिरसां भवेत् ।
क्षिप्रं संशोषणं तस्य त्र्यहान्मरणमादिशेत् ॥
लिङ्गपुराणब्रह्माण्डपुराणयोरप्येवम् ।
देवलस्तु ।
यस्य वै स्नानमात्रस्य उरः पादौ च शुष्यतः ।
मस्तके वा भवेद्धूमोऽर्धमासं न स जीवति ॥
चरकस्तु ।
यस्य स्नानानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम् ।
आर्द्रेषु सर्वमात्रेषु मासार्धं न स जीवति ॥
कालावल्यां तु ।
स्नानमात्रस्य यदपि हृत्पादौ शुष्यतः क्षणात् ।
मासद्वये गते तस्य गमनं यमसद्मनि ॥
मयूरचित्रे ।
हृदये मस्तके चापि कृशा दीप्तिर्विभाति च ।