एवमेकैकशः पुष्पैर्यस्य गन्धसमो भवेत् ।
इष्टैर्वा यदि वाऽनिष्टैः स च पुष्पित उच्यते ॥
स मासेनाशुभान् गन्धानेकैकस्याथ वा पुनः ।
आजिघ्रेद्यस्य गात्रेषु तं विन्द्यान् पुष्पितं भिषक् ।
आप्लुतानाप्लुते काये यस्य गन्धाः शुभाशुभाः ।
व्यत्यासेनानिमित्ताः स्युः स च पुष्पित उच्यते ॥
तद्यथा चन्दनं कुष्टं तगरागुरुणी मधु ।
माल्यमूत्रपुरीषे च मृतानि कुणपस्य च ॥
ये चान्ये विविधात्मानो गन्धा विविधयोनयः ।
तेऽप्यनेनानुमानेन विज्ञेया विकृतिं गताः ॥
इदं चाप्यतिदेशार्थं लक्षणं गन्धसंश्रयम् ।
वक्ष्यामि यदभिज्ञाय भिषग्मरणमादिशेत् ॥
वियोनिर्वित्वरो गन्धो यस्य गात्रेषु जायते ।
इष्टो वा यदि वाऽनिष्टो न स जीवति तां समाम् ।
वित्वरः स्थायीत्यर्थः ।
पराशरस्तु ।
सुरभिर्वाऽप्यसुरभिर्यस्य गन्धः प्रवर्त्तते ।
अस्वस्थः स्वस्थदेहः स्याद्दृष्टं तज्जीवितान्तकृत् ॥
सुश्रुतस्तु ।
पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते ।
वर्णान्यता वा रूक्षो वा यस्य गात्रे भवन्ति च ॥
स्नातानुलिप्तं यच्चापि भजन्ते नीलमक्षिकाः ।
सुगन्धिर्वाति वाऽकस्मात् तं ब्रुवन्ति गतायुषम् ॥