आदिपुराणे ।
अर्धं शीतं त्वथ देहार्धमुष्णं सर्वं त्वकस्मादथ वा प्रतप्तम् ।
कुर्वन् दिनैः सप्तभिः संप्रयाति स्वाधीनेष्टां तां प्रियां कामुकेन ॥
कालावल्यां च ।
उष्णं यस्य भवेदर्धं शरीरं चार्धशीतलम् ।
तस्य सप्तमरात्रौ तु मृत्युरित्यागमोदितः ॥
यस्य चाकस्मिकी ज्वाला ज्वलन्ती जायते तनौ ।
स याति सप्तदिवसे मृत्योर्वदनकोटरे ॥
चरकस्तु ।
भृशं दाहाभिभूतस्य क्रोशतो भृशशीतलम् ।
यस्याङ्गमुपलभ्येत यथा प्रेतस्तथैव सः ॥
तथा ।
एको वा यदि वाऽनेको यस्य वैकारिकः स्वरः ।
सहसोत्पद्यते जन्तोहीर्यमानस्य नास्ति सः ॥
पराशरस्तु ।
स्वरः प्रकृत्या विकृतो विस्वरोऽतिस्वरः कृशः ।
अजैडकानुकारी वा पक्षिणो वाऽप्यसुक्षये ।
चरकः ।
अपस्वरं भाषमाणं प्राप्तं मरणमात्मनः ।
श्रोतारं चापशब्दस्य दूरतः परिवर्जयेत् ॥
यस्यान्यदपि किंचित् स्याद्वैकृतं स्वरवर्णयोः ।
बलमांसविहीनस्य तत् सर्वं मरणोदयम् ॥
तथा ।
वर्णस्वराग्निबलं वागिन्द्रियमनोबलम् ।
हीयेतायुःक्षये नित्या निद्रा भवति मानवे ॥