ताः शुभा रूक्षमलिनाः संक्षिप्ताश्च शुभोदयाः ॥
वर्णमाक्रामति छाया भाति वर्णप्रकाशिनी ।
आसन्ना लक्ष्यते छाया भा प्रकृष्टा प्रकाशते ॥
ना छायोनोऽप्रभः कश्चिद्विशेषाच्चिह्वयन्ति च ।
नृणां शुभाशुभोत्पत्तिं कालच्छायाः प्रभाश्रयाः ॥
कालावल्याम् ।
सायं चोषसि रात्रौ वा ज्योत्स्नावत्यां प्रयत्नतः ।
बाहू वितत्य चात्मीयां छायामालोक्य सर्वतः ॥
शनैरुत्तोलिते नेत्रे स्वछाया दृश्यतेऽम्बरे ।
न दृश्यते यदा तत्र शिरो मरणमादिशेत् ॥
पूर्ववच्च यदा बाहुर्दक्षिणो न विभाव्यते ।
भ्रातृनाशं विजानीयाद्वामो वाऽथ न दृश्यते ॥
बाहुस्ततो न संदिग्धं कलत्रसुतनाशकः ।
आदिपुराणे च ।
सूर्योदये वाऽस्तमने निशायां चन्द्रस्य ज्योत्स्नामथ चोत्थितस्तु
स्वात्मछायां बाहुदण्डौ प्रसार्य दृष्ट्वा कबन्धं प्रजहाति देहम् ॥
पश्यँश्च तां दक्षिणबाहुहीनां विसर्जयेद्भ्रातरमग्रभूतम् ।
पश्यँश्च तां वामभुजोच्छ्रितां च पुत्राँश्च दाराँश्च विसर्जयेच्च ॥
कालावल्याम् ।
ईषत्प्रविततौ बाहू जानूपरि निवेश्य च ।
एकीकृय च बाहूर्ध्वं दिदृक्षुस्तु करो भवन् ॥
रम्भाकोशनिभां छायां लक्षयेत् प्रत्यहं नरः ।
यदा त्वेकदलं तत्र विकाशि परिलक्षयेत् ॥
तस्यामेव तदा नुनं पूर्ववत् परिकल्पयेत् ।