पूर्ववदिति षण्मासान्मरणमित्यर्थः ।
आदिपुराणे ।
कृत्वा कराभ्यां मुकुटं ललाटे त्वरं निधायाथ च जानुपूर्वे ।
सुवर्तुलां तां च निरीक्ष्य भूयो विशेत् स्वदेहं समरान्निवृत्तः ॥
विशीर्णपर्णामथ तां च दृष्ट्वा षड्भिर्मासैस्तां सदेहां जहाति ।
यथैव हंसो वकतुण्डघातैर्विकीर्णपत्रां नलिनीं विरूपाम् ॥
मार्कण्डेयपुराणे तु ।
स्वां छायामथ वा दृष्टा चतुर्मासान् स जीवति ।
पराशरस्तु ।
स्वच्छायाविकृतदर्शनं पञ्चमे मासि मरणाय-इति सम्बन्धः ।
महाभारते मोक्षधर्मे ।
"परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव ।
आत्मच्छायाकृतीभूतं तेऽपि संवत्सररायुषः"[१] ॥
यस्य नेत्रे बहुभिः स्वदेहो न दृश्यते तस्यैव रिष्टं भवति ।
तथा च रिष्टप्रकरणे हारीतः ।
आदर्शतलसकाशे नेत्रे नष्टकुमारिका ।
चरकस्तु
दृष्ट्वा यस्य हि जानीयादात्मरूपां कुमारिकाम् ।
प्रतिच्छायामयीमक्ष्णोर्नैनमिच्छेच्चिकित्सितुम् ॥
भागवते कंसारिष्टदर्शने ।
"अदर्शनं स्वशिरसः प्रतिरूपेषु सत्स्वपि"[२] |
पराशरस्तु ।
निर्मलेऽम्बुन्यादर्शे चात्मदेहादर्शनं स्वशिरश्च सद्यो मरणाय ।
मार्कण्डेयपुराणे तु ।
घृते तैले तथाऽऽदर्शे तोये वा नात्मनस्तनुम् ।