अत उभयमत्रैव ग्राह्यम् । तत्र दीप्तो रौद्रः शकुनोऽशुभो भवति । शान्तः सौम्यश्च शुभो मिश्रो मिश्र इति । दैवदीप्तः क्रियादीप्तश्चेति द्विविधो दीप्तः । पञ्चधा दैवदीप्तः क्रियादीप्तश्चेति । एवं शान्तोऽपि । सौम्यरौद्रौ द्विविधौ ।
तथा च वराहः ।
क्षणतिथ्युडुवातार्कैर्दैवदीप्तो यथोत्तरम् ।
क्रियादीप्तो गतिस्थानभावस्वरविचेष्टितैः ॥
दशधैवं प्रशान्तोऽपि सौम्यस्तृणफलाशनः ।
मांसामेध्याशनौ रौद्रौ विमिश्रोऽन्नाशनः स्मृतः ॥
अशोभनो मुहूर्त्तादौ जातः क्षणदीप्तः । वातः प्रतिलोमो वातदीप्त इत्युत्पलेन व्याख्यातम्[१] । दग्धज्वलिनधूमितदिग्भवस्त्रविधो रविदीप्तः ।
पराशरः ।
अङ्गारिण्यर्कनिर्मुक्ता दीप्ता यस्यां दिवाकरः ।
प्रधूमितैष्यसूर्यादिशान्ताः पञ्चेतरा दिशः ॥
वसन्तराजस्तु ।
दिग्धा दिगुक्ता दिननाथमुक्ता विवस्वदीप्ता भवति प्रदीप्ता ।
सा धूमितायां सविता प्रयातः शेषा दिशस्ताः किल पञ्च शान्ताः ॥
दग्धा दिगैशी ज्वलिता दिगैन्द्री धूमान्विता वाऽनलदिक् प्रभाते ।
प्रत्यह्नि चैव प्रहराष्टकेषु भुङ्क्ते दिशोऽष्टौ सविता क्रमेण ॥
अर्धे दिनस्य प्रहरेऽवशिष्टे यावन्निशायाः प्रहरार्धमाद्यम् ।
स्यात् पश्चिमा सा रविणा च गूढा गम्योषिते धूमितभस्मवत्यौ ॥
ईदृशं त्रिषुवतोर्द्वयोर्भवेद्दक्षिणायनदिने तु शाङ्करी ।
पावकी ज्वलति चोत्तरायणे भस्मधूमसहिते तु पार्श्वयोः ॥
अन्यत्र संक्रान्तिचतुष्टयात् तु भोगः स्वबुद्ध्या ककुभां विभाव्यः ।
चलो रविः सन्ततमेव याति यस्या दिशः सौम्ययमाधिवासे ॥
- ↑ द्रष्टव्या अ. पु, १०१३ पृ.१२ पं.।