वराहः ।
मुक्तप्राप्तैष्यसूर्यासु फलं दिक्षु तथाविधम् ।
अङ्गारदीप्तधूमिन्यस्ताश्च शान्तास्ततोऽपराः ॥
तत्पञ्चमदिशां तुल्यं शुभं त्रैकाल्यमादिशेत् ।
परिशेषदिशोर्वाच्यं यथासन्नं शुभाशुभम् ।
वसन्तराजः ।
सन्ध्याद्वये शस्त्रभयं प्रदीप्ता वाताद्भयं मेघनिनादीप्ता ।
उपक्रमे वारिधनागमस्य दीप्ता जनान् संजनयन्ति भीतिम् ॥
जाते प्रदीप्ते शकुने नराणां स्याद्भस्मितायां दिशि वित्तहानिः ।
आलिङ्गतायां दिशि जीवनाशः सन्तापशोकौ दिशि धूमितायाम् ॥
पराशरः ।
दीप्तासु पूर्वतो युवराजभयाय । आग्नेय्यामग्निभयाय दक्षिणस्यां सार्थस्य[१] निवेशघाताय । नैर्ऋत्यां चौरभयाय । पश्चिमतः सर्वे पर्वतघाताय । वायव्यां वातोद्द्वमाय । ऐशान्यां मित्रविरीधो विपर्यः शान्तासु ।
ऐन्द्र्यां दीप्तानुबन्धी च शकुनो व्याहरेद्यदि ।
मृगो वा नृपतौ पीडां कुर्याद्वा नृपसत्कृते ।
तस्यामेवं तु शान्तायां शान्तं स्याच्च रुतं यदि ।
तयोरेव तदा विद्याद्धनलाभं प्रियागमम् ॥
आग्नेयेऽग्निभयं दीप्ते देहपीडां च निर्दिशेत् ।
शान्ते स्याद्दर्शनं तत्र शिल्पिनामग्निजोविनाम् ॥
देहपीडां भयं नाशं याम्ये दीप्ते विनिर्दिशेत् ।
शान्ते मन्त्रिनृमुख्याणां विकल्पस्य च दर्शनम् ॥
- ↑ 'सार्थो वणिक्समूहे स्यात्'-इति कोषः ।