उत्पातं तं विजानीयान्मदलिङ्गेन शास्त्रवित् ॥
धर्महीना वयोहीना धातुहीनाश्च वारणाः ।
अप्राप्तमदकालत्वादत्यर्थं निन्दिताः पुनः ॥
अतिस्थूलाः कृशाश्चापि श्रान्ताश्च व्याधितास्तथा ।
यत्र च्छिक्काः प्रभिद्यन्ते कटाभ्यां कोशतस्तथा ॥
शिरोभिस्यन्दतो रोगान्मूत्राभिस्यन्दतोऽपि वा ।
अथ चेद्युगपन्माद्येत् कटाभ्यां कोशतस्तथा ॥
विवर्णं गन्धहीनं च तदपि व्याधिलक्षणम् ।
मदं मन्दगुणैर्युक्तं यदा स्रवति पोतकः ॥
वर्णस्थं गन्धयुक्तं च हर्षेण च समन्वितम् ।
मण्डले तु तदा तस्मिन् महदौत्पातिकं भवेत् ॥
गजग्रामेऽथ वाऽरण्ये मातङ्गो यत्र माद्यति ।
यूथस्य नाशं जानीयाद्दाहं नागवनस्य च ॥
मृगाणां पक्षिणां चैव ये चान्ये तत्र संश्रिताः ।
एतेनैवोपसर्गेण प्राप्नुवन्ति विनाशनम् ॥
वर्षे तु प्रथमे नागो ह्युपसर्गात् प्रभिद्यते ।
मदः सुरभिगन्धो वा दुर्गन्धो वाऽपि जायते ॥
तस्य राष्ट्रस्य नाशाय प्रादुर्भावो मदस्य हि ।
संदृष्टो नयतत्त्वज्ञैस्तस्मिन्नुत्पातदर्शने ॥
वर्षे द्वितीये मातङ्गः प्रभिन्नो यदि दृश्यते ।
ब्राह्मणास्तत्र पीड्यन्ते[१] शस्यहानिश्च जायते ॥
नानाविधाश्च रोगाः स्युस्तत्पुरे तु सदा वदेत् ।
- ↑ 'शस्य हास्यति काश्यपी' इति ग. पु. पा.।