शुभे देशे शुभा भङ्गाः शुभा ज्ञेया महाफलाः ॥
स्वात्यश्वयुग्धनिष्ठासु रेवत्यां तिष्यहस्तयोः ।
चित्रायां चैव नक्षत्रे सौम्यश्रवणयोस्तथा ॥
ये भवन्ति शुभा भङ्गाः शुभा ज्ञेया महाफलाः ।
मुहूर्त्तेष्वथ देशेषु ये भङ्गाः शुभलक्षणाः ॥
तेषु मन्दफला दृष्टा यथाशास्त्रविनिश्चयम् ।
पापकेभ्यस्तिथिभ्यश्च नक्षत्रेभ्यस्तथैव च ॥
तिथयो ये च शिष्टाः स्युर्भङ्गास्तेषु शुभावहाः ।
बृहद्यात्रायां वराहः ।
दन्तभङ्गफलमत्र दक्षिणे भूपदेशबलविद्रवप्रदम् ।
वामतः सुतपुरोहितेभयान् हन्ति साटविकदारनायकान् ॥
आदिशेदुभयभङ्गदर्शनात् पार्थिवस्य सकलं कुलक्षयम्[१] ।
विष्णुधर्मोत्तरे तु ।
दन्तभङ्गोऽशुभे देशे द्रुमे वा भयवर्धनः ।
क्रूरेष्वशुभलग्नेषु तथा रागविशेषतः ॥
पराशरस्तु ।
बहिर्दन्तशकलावपतनं पराजयाय । मूलात् पार्थिवस्य । मध्यतः कुमाराणाम् । अग्रतो नायकस्य । सेनापतेरुभयतः । बहुधा च राज्ञः सेनायां हस्त्यश्वानां वधाय ।
राजपुत्रस्तु ।
मूले यथाफलो भङ्गो मध्ये मध्यफलः स्मृतः ।
अग्रे त्वल्पफलो ज्ञेयः शुभो वा यदि चेतरः ॥
उभौ भङ्गौ विजानीयान्मध्यमाविति निश्चितौ ।
शुभदेशे शुभो भङ्गः सदा बहुफलो भवेत् ॥
- ↑ इत्यादिकानि बहूनि वचनानि बृहत्संहितायामप्युपलभ्यन्ते द्रष्टव्यम् अ. पु. १०९३पृ.