पृष्ठम्:अद्भुतसागरः.djvu/६१९

पुटमेतत् सुपुष्टितम्
६१२
अद्भुतसागरे ।

 तदादिशेद्भूतनाशं नृपतेरचिरादिति ॥
 कनकं परुषं पुष्पं विशुभ्रं चैव यद्भवेत् ।
 निर्दिशेच्छास्त्रवित् तेन महद्भयमुपागतम् ॥
 धूम्रवर्णेषु पुष्पेषु दृश्यमानेषु दन्तयोः ।
 राष्ट्रं सनगरं दह्येन्न च वर्षति वासवः ॥
 रथस्याश्वस्य नागस्य असमग्रस्य दन्तयोः ।
 आदिशेत् तुल्यरूपेषु नृपतेर्वाहनक्षयम् ॥
 कृष्णसर्पवराहाणां रासभानां समं तथा ।
 देशानामनयं विद्याद्दृष्ट्वा पुष्पमुपस्थितम् ॥
 पतन्ति वा यदा कृष्णा व्यालाश्च रुधिराशनाः ।
 एतेषां तुल्यरूपेषु विद्यादनयमागतम् ॥
 निर्दिशेत् कृष्णपुष्पाणां दर्शनं पुष्पवित् तथा ।
 दूतानां परराष्ट्रेभ्यस्त्वागमं पृथिवीपते ॥
 पुष्पाणि बहुवर्णानि दृश्येरन् सुबहून्यपि
 निर्दिशेन्नृपतेस्तैस्तु क्षिप्रं मरणमागतम् ॥
 अथ श्यामानि पुष्पाणि प्रदृश्येरन् विशेषतः ।
 रोगाश्च दारुणा राष्ट्रे भवन्तीति न संशयः ॥
 श्यामप्रायाणि पुष्पाणि बहुवर्णानि हस्तिनः ।
 बहूनि यदि दृश्येरन् जनमारीं निवेदयेत् ॥
 पुष्पाणि लोहितान्येव दृश्यन्ते सर्वतो यदा ।
 उत्पातदर्शने तस्मिन् राजा शस्त्रेण हन्यते ॥
 दृश्यमानेषु पुष्पेषु रूक्षपीतेषु हस्तिनः ।
 निर्दिशेच्च नरेन्द्रस्य व्याधिपीडामुपस्थिताम् ॥