वराहसंहितायाम्
एको दुर्भिक्षकरो द्व्याद्याः स्युर्नरपतेर्विनाशाय ।
सितरक्तपीतकृष्णैस्तैर्विद्धोऽर्कोऽनुवर्णघ्नः ॥
उक्तादन्यस्थान एको दुर्भिक्षकर: । उक्तसंस्थानोऽनुक्तसंस्थानो वा ह्यादिर्नृपविनाशाय । अनुक्रमेण वर्णान् ब्राह्मणादीन् हन्तीत्यनुवर्णघ्नः ।
तथा ।
दृश्यन्ते च यतस्ते रविविम्बस्योत्थिता महोत्पाताः ।
आगच्छति लोकानां तेनैव भयं प्रदेशेन ॥
अथ संस्थानफलम् । तत्र गर्गः ।
खण्डो वा कृष्णवर्णो वा ह्रस्वः पिङ्गलकोऽपि वा ।
आदित्यो दृश्यते यत्र राज्ञो मृत्युं विनिर्दिशेत् ॥
पिङ्गलक इति कृष्णमेचकाकृतिः ।
वृद्धगर्गः ।
खण्डो वा [१]कृष्णरेखा वा मुण्डः पिङ्गलकोऽपि वा ।
देशविभ्रममादित्यो राजमृत्युं च सूचयेत् ॥
एतत्फलं रूक्षे रवौ वक्तव्यम् ।
यथा वराहः ।
खण्डो वक्रः कृष्णो ह्रस्वः काकाद्यैर्वा चिह्नैर्विद्धः ।
यस्मिन् देशे रूक्षश्चार्कस्तस्याभावः प्रायो राज्ञः ॥
पराशरः ।
मुण्डाकार उलूकसंस्थान उन्मादापस्मारकृत् ।
वृद्धगर्गः ।
विरुक्षेण भवेत् क्षेमः स्थालीपिठरसन्निभे ।
अनावृष्टिश्च वैरं च संक्षिप्ते सूर्यमण्डले ॥
रूक्षोऽरुणोऽञ्जनश्यामः सूर्यो वा ह्रस्वमण्डलः।
रूक्षोऽरुणो ह्रस्वमण्डल इत्येकनिमित्तम् । रूक्षोऽञ्जनश्यामो ह्रस्वमण्डल इत्यपरम् ।
- ↑ कृष्णरक्त इति ख. ।