पृष्ठम्:अद्भुतसागरः.djvu/६२७

पुटमेतत् सुपुष्टितम्
६२०
अद्भुतसागरे ।

 पत्रान्तरेषु चास्त्राणि यथावदनुपूर्वशः ।
 वज्रं तु विन्यसेद्विद्वान् शक्रपत्रादनन्तरम् ॥
 ततश्चक्रं ततो दण्डं तोमरं तदनन्तरम् ।
 ततो वै दिव्यसेनाङ्गं तोमरं सशरं धनुः ॥
 ततो गदां महाभाग ततः शूलं च विन्यसेत् ।
 तदा तस्यान्तरदलं वृत्तया रेखया भजेत् ॥
 आदित्यैः सह नासत्यौ ततः पूर्वेण विन्यसेत् ।
 वसुरग्निदिशो भागे वायव्ये मरुतस्तथा ॥
 विश्वेदेवास्तथा रक्षो रक्षोदिशि च विन्यसेत् ।
 कृत्वैवं देवतान्यासं वृत्तया रेखया भजेत् ॥
 बाह्येन विन्यसेत् तेषु शूलाकारानृषिद्विजान् ।
 पूर्वेण वाऽथ याम्येन तथा देवीं सरस्वतीम् ॥
 नदीं पश्चिमतः शैलाँस्तथोदग्भृगुसत्तम ।
 महाभूतानि देवेषु कोशहस्तगतानि तु ॥
 पद्मं चक्रं गदां शङ्खमैशान्यादिषु विन्यसेत् ।
 सप्तहस्तेषु दण्डेषु पताकाश्च तथा न्यसेत् ॥
 सितरक्तासिताः पीतां यथावदनुपूर्वशः ।
 दिक्षु तोरणविन्यासं तोरणानां वनेषु च ॥
 क्षीरवृक्षद्रुमदलैः कुसुमैः सफलैर्भवेत् ।
 तोरणस्य प्रमाणं च यद्दृष्टं परिकीर्त्तितम् ॥
 उच्छ्राये च तथाऽऽयामे ज्ञेयं दामसमं द्वयम् ।
 तार्क्ष्यं तालं च मकरं मत्स्यं चैवानुपूर्वशः ।
 तोरणोपरि मध्ये तु दानवान् विनिवेशयेत् ।