तानि राष्ट्रस्य नाशाय राष्ट्रभ्रंशकराणि च ।
बालको यस्य पत्राणां राज्ञस्तानि विनाशने ॥
द्विवर्णे तु पुष्पे फलं साधु दद्यात् विकल्पैरनेकैस्तथा तस्य तत् स्यात् ।
चतुर्वर्णपुष्पं समग्रं सुवर्णं फलं चात्र वेद्यं यशोऽग्र्यं प्रभुत्वम् ॥
हये श्वेतपुष्पे भवत्यश्वभर्त्ता रणे शत्रुहन्ता परं चाश्वरत्ने ।
हये रक्तपुष्पे व्रजत्यश्वभर्त्ता विनाशं विवादं परं कीर्त्तिनाशम् ॥
हये कृष्णपुष्पे व्रजत्यश्वभर्त्ता विपत्तिं विनाशं च सङ्ख्ये हरीणाम् ।
हये पीतपुष्पे व्रजत्यश्ववर्णानुवर्णेषु तुल्यं फलं शास्त्रयोगात् ॥
यथा क्षेत्रे च दशधा विभक्तं लक्षणं पृथक् ।
पृथक् पुष्पे फलं चैव तच्च विद्यान्निमित्तजम् ॥
तस्मान्निमित्तजं ग्राह्यमादेश्यं च निमित्तवत् ।
एवमुक्तानि पुष्पाणि यच्च प्रोक्तमशेषतः ॥
अथ दन्तादिवैकृत्यम् । तत्र पराशरः ।
अधिकैर्दन्तैः स्वामिनो धनक्षयं विद्यात्। उपर्यधिकैः स्वामिनां संग्रामे वधं ह्रस्वैः करालैर्विसृमरैर्भर्त्तुरनर्थं विनाशं च ।
शालिहोत्रस्तु ।
चत्वारिंशस्तथाऽश्वानां दशनाः परिसंख्यया ।
दन्तसंख्यानवैषम्यात् फलं वैशेषिकं शृणु ॥
हयस्त्वधिकदन्तस्तु प्रजाघ्नो भर्त्तृनाशनः ।
उच्चैस्तु दर्शनैर्वाऽपि भर्तृघ्नो दारदूषणः ॥
दन्तपूर्णमुखं चैव वर्जयेत् कुलनाशनम् ।
अप्रशस्तेन रूपेण दन्तमूलाद्द्विजोऽधिकः ॥
निर्गतो यस्य सोऽधस्तात् करिदन्तकुलान्तकृत् ।
विषमैर्दर्शनैर्वाजी भर्त्तृघ्नः परिकीर्त्तितः ॥