पृष्ठम्:अद्भुतसागरः.djvu/६४६

पुटमेतत् सुपुष्टितम्
६३९
अश्वाद्भुतावर्त्तः ।

 मध्ये मध्यफलं विद्याच्छेदे स्वल्पफलं भवेत् ।
 मूले व्यक्तफलं विद्याद्भङ्गे तुरगदन्तिनाम् ॥
 नाग्राह्यं लक्षणं भङ्गे भक्ष्यार्थदशनस्य वा ।
 दिवसस्य च रात्रेश्च त्वेकान्येन विभावयेत् ॥
 क्षिप्रं मध्यं चिराच्चैव चित्रं दृष्टं फलोदयम् ।
 पूर्वाह्णे क्षिप्रपाकः स्यान्मध्याह्ने तु चिराद्भवेत् ॥
 अपराह्णे च रात्रौ च चिरपाकफलयोदयः ।
 तिथिनक्षत्रयोगेषु दिवसेषु गुरुष्वपि ।
 फलोदयो यथोद्दिष्टः स एवाल्पफलो भवेत् ।
 वारुणे रुद्रदेवत्ये नक्षत्रे सर्वसन्धिषु ॥
 चन्द्रसूर्योपरागेषु दिवसेषु गुरुष्वपि ।
 अविकारि यदाऽश्वस्य दंष्ट्राभङ्गे महत् फलम् ॥
 विकारा जरसा चैवमश्वानां ये भवन्ति तु ।
 न तत्र तैः शुभो ज्ञेयोऽशुभो वा विफलोदयः ॥
 नाभिघातादकस्माच्च पतनं फलदं भवेत् ।
 सुवर्णगोप्रदानैश्च द्विजेभ्यस्तर्पणेन च ॥
 शान्तिः पुण्याहघोषैश्च समयो बलवान्नृप ।
 काले तु दृष्ट्वा उत्पाताँस्तत्र सद्यः फलोदयः ॥
 राज्ञः सबलराष्ट्रस्य तत्र विद्यान्महद्भयम् ।

ऊर्ध्वमधश्च मध्यदन्तचतुष्टयाग्रस्ठौ दन्तौ दृष्ट्वा पराशरः ।
 योऽजातवृषणः कर्णै यस्य कराङ्गुष्टपर्वप्रमाणौ कर्णमलयोः शङ्खे स्यातां सोऽश्वो राष्ट्राद्वहि कार्यः ।