वराहसंहियाम् ।
गावो दीनाः पार्थिवस्याशिवाय पादैर्भूमिं कुट्टयन्त्यश्च रोगान् ।
मृत्युं कुर्वन्त्यश्रुपूर्णायताक्ष्यः पत्युर्भीतास्तस्करानारुवन्त्यः ॥
भागवते कृष्णोत्क्रान्तिनिमित्तम् ।
"रुदन्त्यश्रुमुखा गावः"[१]।
पराशरः ।
धेनुकानामनिमित्तमुत्क्रामः प्रकृत्यारोग्यम् ।
वसन्तराजः ।
हम्भारवो वा समभीष्टसिद्ध्यै गवां तथा स्युर्निशि हुङ्कृतानि ।
गावो निशीथे सरवा भयाय जयाय राज्ञे दिवसे रटन्त्यः ॥
भृशं विरुद्धा यदि मक्षिकाभिस्तदाऽऽशु वृष्टिं सरमात्मजै[२]र्वा ।
हम्भारवोन्मिश्रितहुँकृता या वत्सोत्सुका हर्षपरीतचित्ताः ॥
ज्ञेयाः सुरभ्यः शुभदाः सदैव गोभिः समानाः शकुने महिष्यः ।
वराहसंहितायाम् ।
आगच्छन्त्यो वेश्म हम्भारवेण संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः।
आर्द्राङ्ग्यो वा हृष्टरोमाः प्रहृष्टा धन्या गावः स्युर्महिष्योऽपि चैवम् ॥
विष्णुधर्मोत्तरे तु ।
आर्द्राङ्गयो हृष्टरोमाश्च प्रविशन्त्यस्तथा गृहम् ।
सिंहलग्नमृगा[३] वाऽपि विज्ञेयाः स्वामिवृद्धये ॥
महिष्यादिषु चाप्येतत् सर्वं वाच्यं विज्ञानता ।
वसन्तराजः ।
अजा निशीथे यदि रौति तेन सर्वाणि गेहे लभते सुखानि ।
अत्रानुक्तविशेषशान्तिषु वृषाद्युत्पातेषु सावित्रीमव्रकलक्षहो-