गर्गस्तु ।
शशशोणितवर्णाभो यदा भवति भास्करः ।
तदा भवन्ति संग्रामा घोरा रुधिरकर्दमाः ॥
मध्याह्ने शशशोणितवर्णे सूर्ये बहवो घोरा: संग्रामाः । अन्यदा त्वेक एवेति वचनद्वयसामञ्जस्यम् ।
तथा च वराहसंहितायाम् ।
शशरुधिरनिभे भानौ नभःस्थलस्थे भवन्ति संग्रामाः ।
शशिसदृशे नृपतिवधः क्षिप्रं चाग्यो नृपो भवति ॥
नमः स्थलस्थे दशमस्थे मध्याह्न इत्यर्थ: । शशिसदृशश्च मध्याह्न एव ।
यथाऽऽह वृद्धगर्गः ।
कांस्यपात्रीनिभः सूर्यः शशाङ्क इव लक्ष्यते ।
विरश्मिर्नभसो मध्ये महद्भयकरः स्मृतः ॥
राज्ञो देशस्य च नाशो महद्भयम् ।
तथा च मयूरचित्रे ।
आदर्श इव दृष्टश्च राज्ञो देशस्य चान्तकृत् ।
तत्रैव ।
आदर्श इव सूर्ये च जनदेशभयं वदेत् ।
गर्गः ।
उदयास्तमये भानौ कबन्धसदृशे भयम् ।
अन्यसमये च पराशरः ।
कबन्धाकृतिर्महासंग्रामकृत् ।
स्कन्दपुराणे तु तारकवधनिमित्तम् ।
दृश्यते च कबन्धाभो भास्करोऽपि तदा भृशम् ।
मयूरचित्रे तु ।
कबन्धसदृशे सूर्ये शस्त्रपातभयानि च ।
सेनापतेर्वधश्चैव भयं तद्देशभूपतेः ॥
विपरीताश्च धर्मिष्ठा जायन्ते निर्धनाः प्रजाः ।