बार्हस्पत्ये ।
ग्राममध्ये न वाशेत वनादागत्य जम्बुकः ।
तीक्ष्णस्वरेण महता दृष्टो ग्रामवधाय सः ॥
गार्गीये ।
दिवा गृहं प्रविशति जम्बूको यस्य निर्भयः ।
ध्रुवं गृहपतेस्तत्र विनाशः क्षिप्रमुच्यते ॥
औशनसे तु ।
परित्यज्य स्वकां वाचं यत्र गोमायुरन्यथा ।
वाचं वदेज्जन्तुभयं गोमायुवदनं स्मृतम् ॥
युगपद्यत्र गोमायू वाशेते विस्वरं क्व चित् ।
तत्र के चिद्भयं प्राहुर्गर्गर्षिवचनश्रुतेः ॥
ऐन्द्राग्निस्तत्र दीप्ता स्यादिन्द्राग्निर्वाऽत्र मन्त्रिका ।
यं गोमायुः प्रवदति इति प्रभृति कर्म च ॥
अथ लोममिका । तत्र वसन्तराजः ।
सिद्धै सदा सर्वसमीहितानां स्याल्लोमसीदर्शनमग्रतस्तु ।
राजप्रसादं कथयन्त्ययुग्मां दृष्ट्वा ध्रुवं लोमसिकां च पृष्ठे ॥
सव्याय सव्या च गतिः सदाऽऽमां नृपादरस्त्रीधनलाभहेतुः ।
खीखीति शब्दादपरो विरावो दीप्तो भवेल्लोमसिकासमुत्थः ॥
वराहसंहितायाम् ।
लोमासिकायाः खलु ककशब्दः पूर्णः स्वभावप्रभवः स तस्याः ।
येऽन्ये स्वरास्ते प्रकृतेर्व्यपेताः सर्वे प्रदीप्ता इति संप्रदिष्टाः ॥
अथ शिवा । तत्र वसन्तराजः ।
शोभना शुभफलाप्तिसूचकं कथ्यते कलिभयं शिवारुतम् ।
शान्तदीप्तककुभां विभागतो ज्ञानमत्र च सदा प्रयुज्यते ॥