पृष्ठम्:अद्भुतसागरः.djvu/६६७

पुटमेतत् सुपुष्टितम्
६६०
अद्भुतसागरे

 स्थानेष्वेषु शिवाकन्दो देशभङ्गकरः स्मृतः ॥

वसन्तराजः |

स्मशानभूमौ दिनमध्यभागे मध्येजनं चेत् तु गृहप्रवेशे ।
या रौति तस्यै वलिमर्घयुक्तं भक्त्या प्रदद्याद्यदि भद्रमिच्छेत् ।

अथ दिक्फलं वराहसंहितायाम् ।

 पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता ।
 धूमिताऽभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान् ॥

सर्वशाकुनाद्भुतादत्तेऽपि लिखिता।

 अन्यत्राभिरुता या स्यात् सा बन्धमृतिसंशिनी ।
 वारुण्यां विरुता सैव संशते सलिलागमम् ॥

पराशरः ।
 अथ प्राच्यादिदिक्षु दीप्तासु शिवा व्याहरन्ती स्त्रीहरणं कुर्यात् । पूर्वदक्षिणम्यां दिशि गृहपतेर्घातिमग्निदाहं वा । दक्षिणस्यां वैश्यवधमागन्तुं वधं वा दक्षिणपश्चिमस्यां राजतो भयं शत्रोर्गणस्य च । पश्चिमायां सलिलघातं शूद्रोपद्रवं च । पश्चिमोत्तरस्यां दीर्घार्तिं ब्राह्मस्य पीडां वा । उत्तरस्यां व्याधिम् उत्तरपूर्वस्यां दृष्टपुंसः प्रवेशनम्। नैर्ऋत्यांवायव्यां वारुण्यां च व्याहरेच्छरीरघातः स्यात् । दक्षिणतो मेघसंतादा कष्टाय । पश्चिमतः श्रेष्ठामात्यवधाय । भेरीमृदङ्गघोषाभा चेदुत्तरतो द्विर्वर्हेद्भूमिकम्पाय । त्रिर्महोल्काभयाय । फेरुण्डकस्य त्रिचतुःषट्सप्तकृत्व इति रुतेष्वानुपूर्व्यात् फलं विद्यात् । प्राच्यां तावद्दिशि कन्याहरणमग्न्युत्पातं क्षत्रियसन्नाहं ग्रहस्य केतोरुदयमिति । दक्षिणपूर्वस्यां दिशि गोयुगप्रणाशं गवां च सह पालैभात्मघातं महद्भयमग्न्युत्पातमिति । दक्षिणस्यां पलायनं राजदण्डयोगं स्वचक्रदोषं मरकमिति। नैर्ऋत्यां फेरुण्डकक्रीडितं न गुणाय