पराशरः ।
सर्वत्र घोरप्रणादिनी सर्वतो ग्रामं परिगच्छन्ती च शस्त्रोत्पातान् । भृशं स्वरे ह्युद्घुष्टकान्यभिधाय पीडाशस्त्राभिघाताय प्रमाणीकुर्यात् ।
वसन्तराजः ।
दिक्ष्वारुदन्ती सकलासु रौद्रं भ्राम्यत्यखिन्ना परितः पुरं चेत् ।
शृगालजाया खलु तद्ब्रवीति युद्धं महच्चैव तथा विघातम् ॥
करोति फेफे इति सर्वदिक्षु यदा तदा स्थानविघातयुद्धे ।
शिवाऽभिधत्ते क्षुधिता त्वसंख्यान् रौद्रस्वरान् मुञ्चति चेदुपेक्ष्या॥
सर्वदिक्षु शुभा दीप्ता विशेषेणाथ शोभना ।
पुरे सैन्येऽथ सव्या या काष्टा सूर्योन्मुखी शिवा ॥
मत्स्यपुराणे ।
अर्कोदयेऽर्काभिमुखी शिवा यमभयं वदेत् ।
वराहसंहितायां तु ।
“शिवोदये यत्र दिवाकरस्य भोमारवा चोर्ध्वमुखी विमुञ्चेत् ।
समागता वायसगृध्रसङ्घैस्तदा भयं वेदविदो वदन्ति”[१] ॥
पराशरः ।
सन्ध्यायां मनुष्यवधाय ।
सुन्दरकाण्डे रावणवधनिमित्तम् ।
"उपरक्ते च सन्ध्ये द्वे व्याहरत्यशिवं शिवा”[२]।
वसन्तराजः ।
आद्ये दिनस्य प्रहरे प्रवृत्ते महेशदेवेशहुताशदिक्षु ।
शिवा रटन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥
अह्नो द्वितीये प्रहरस्य भागे सहस्रनेत्रानलकालदिक्षु ।