यः कन्धरोरःशिरसां समन्ताद्बिभर्त्ति कार्ष्ण्यं स समन्तभद्रः ।
कृष्णेन युक्तः शिरसोरसा तु भवेत् प्रभद्रः शितकन्धरास्यः ॥
कृष्णोरसी यस्य तु खञ्जनस्य कृष्णे भवेतां स मृतोऽनुभद्रः ।
कृष्णा भवेत् कण्ठगतैव रेखा यस्य त्वसावम्बरभद्रनामा ॥
मध्यादमीषां शुभकार्यसिद्ध्यै यो यो भवेत् पूर्वतरः स मुख्यः ।
एते च वर्णक्रमेण शुभसूचकाः ।
यथाऽऽह पराशरः ।
अगस्त्योदयादिशरद्येते दृष्टाः क्रमाद्ब्राह्मणादीनां शुभाशुभमाविदयन्ति सर्वेषां वा समन्तभद्र इति ।
काश्यपो भद्रसम्पूर्णयोर्लक्षणमाह । तद्यथा ।
स्थूलोऽभ्युन्नतकण्ठो यो भद्रकृष्णगलः स्मृतः ।
कृष्णमूर्धगलान्तो यः स संपूर्ण इति स्मृतः ॥
नामानुरूपेण फलं विहङ्गानां विनिर्दिशेत् ।
वराहसंहितायां च ।
स्थूलोऽभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः ।
आकण्ठमुखात् कृष्णः संपूर्ण: पूरयत्याशाम् ॥
तथा च वसन्तराजः ।
आकाशभद्रो गलमात्रकृष्णः शिताननः कार्यविनाशनाय ।
अयमेव रिक्त इत्युक्तं वराहसंहितायाम् ।
तद्यथा ।
कृष्णो गलेऽस्य विन्दुः शितकरटान्तः स रिक्तकृद्रितः
पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः ॥
वसन्तराजेन तु गोमूत्र इत्यस्य संज्ञा कृता ।
तद्यथा ।
स्याद्यो हरिद्रारससंनिकाशो गोमत्रनामा स तु खञ्जरीटः ।