वृषककुदि विशेषमाह पराशरः ।
वृषभककुदि सेनापत्यं गजशिरस्यातपत्रे राज्यागमम् ।
सर्पशिरसि विशेषो विष्णुधर्मोत्तरे |
शार्ङ्गकं तु नरो दृष्ट्वा भुजङ्गमशिरोगतम् ।
अवश्यं तदवाप्नोति यत्किञ्चिन्मनसेप्सितम् ॥
कृष्णसर्पशिरसिं तु विशेषमाह पराशरः ।
कृष्णभुजङ्गममस्तकारूढो महदविकलं सकलवसुधाधिपत्यम्-इति ।
राज्यं भूमानापेक्षया बोद्धव्यम् ।
यदाह वसन्तराजः ।
क्षेत्रे ग्रामो ग्रामकत्वे पुरं स्यात् पुर्यां सत्यां मण्डलं मण्डलेषु ।
सर्वाऽप्युर्वीत्येवमत्रातिमात्रो यो लामस्तं राज्यमित्यालपन्ति ॥
एवं प्रकारेषु मनोरमेषु स्थानान्तरेष्वेषु फलान्तराणि ।
इच्छानुरूपाणि ददात्यवश्यं पूर्वत्र दृष्टोऽहनि खञ्जरीटः ॥
पराशरः[१] ।
अपां समीपे गजमस्तके वा सूर्योदये ब्राह्मणसन्निधौ वा ।
पुण्येऽवकाशे गहने वने वा पश्येत् तु यः खञ्जनकं स धन्यः ॥
वराहसंहितायाम् ।
सूर्योदये प्रशस्तो नेष्टफलः खञ्जनोऽस्तमयेऽतीव ।
नृपतिरपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विदध्यात् ॥
सुरभिकुसुमधूपयुक्तमर्धं शुभमभिनन्दितमेवमेति वृद्धिम् ।
वसन्तराजः ।
दृष्ट्वोदितेऽगस्त्यमुनौ सुदेशे सुवेष्टितं खञ्जनकं विदध्यात् ।
मन्त्रेण पूजां शिरसा प्रणामं तत्सूचितस्येष्टफलस्य वृद्ध्यै ॥
त्वं योगयुक्तो मुनिपुत्रकस्त्वमदृश्यतामेति शिखोद्गमेन ।
विलोच्यसे प्रावृषि निर्गतायां त्वं खजनाश्चर्यमयो नमस्ते[२]॥