वराहसंहितायाम् ।
दीप्तोद्विग्नो विटिपेऽवकुट्टयन् वह्निकृद्विधुतपक्षः ।
रक्तद्रव्यं दग्धं तृणकाष्ठं वा गृहे विदधत् ॥
पराशरस्तु ।
शिरो विकम्पयन्तो वाशमानाः सशर्करदीप्तस्थानाद्गणशो
ग्रामाभिमुखं धावन्तोऽग्निमाशंसन्ति । तृणरज्जुकार्पासतन्तृँश्चाग्निभयाय । शुष्ककाष्ठं चौरभयाय विततपक्षा गृहे किञ्चिद्विलिखेयुर्भवेत् कटुम्बिनी दुष्टा । वामेन मण्डले नीलीयमानास्तदा सैव विधवा । बहवश्चेत् परस्परं भ्रमेयुः स्त्रीविनाशाय स्युः । परस्परमाहन्युः स्वजनो दुष्येत् । गृहेषु पुनरुत्पतेयू राजगमनम्। अथैकश्चेज्जीवन्तमाखुमादाय गृहे निपातयेच्छ्रीनाशाय । तमेव मृतं कलहाय । प्रतिवाश्य पुच्छं प्रचालयन् सर्वस्वहरणाय ।
वराहसंहितायाम् ।
प्रतिवाश्य पृष्ठतो दक्षिणेन यायाद्भुतं क्षतजकारी ।
एकचरणोऽर्कमीक्षन् विरुवँश्च पुरो रुधिरहेतुः ॥
दृष्ट्वाऽर्कमेकपादस्तुण्डेन लिखेद्यदा स्खपिच्छानि ।
पुरतो जनस्य महतो वधमनिधत्ते तदा बलिभुक् ॥
पराशरस्तु ।
सूर्योदये जन्तुं तुण्डेन दारयेयू राज्ञोऽमात्यस्य वा वधः।
वराहः ।
[१]मृतपुरुषाङ्गावयवे स्थित्वाऽभिस्वँश्च मृत्युकरः ।
भुञ्जन्नस्थि च चञ्च्वा यदा रुवत्यस्थिभङ्गाय च ॥
रज्जवस्थिकाष्ठकण्टकिनिःसारशिरोरुहानने रुवति ।
भुजगगददंष्टितस्करशस्त्राग्निभयान्यनुक्रमशः ॥
- ↑ अत्रापि श्लोकद्वयं बृहत्संहितायाश्चरमौ बृहद्यात्राया इति ।