ऊर्ध्वमुखाश्चलपक्षाः पथि भयदाः क्षुद्भयाय धान्यमुखाः ।
सेनाङ्गस्था युद्धं परिमोषं चान्यभृतपक्षाः ॥
काष्ठरज्ज्वस्थिनिःसारकेशकण्टकिभृद्रुवन् ।
व्यालाहिव्याधिशस्त्राग्नितस्करेभ्यो भयङ्करः ॥
युद्धं सेनाङ्गसंस्थे तु मोषकृत् स्वविलेखने ।
चरन् निशि विनाशाय दुर्भिक्षं धान्यमोषकृत् ॥
विलेखनमङ्गादिविलेखनम् ।
पराशरस्तु ।
निश्यन्तरिक्षे सङ्कशः सशब्दं चरेयुर्नृपजनपदयोर्भयम् ।
सन्ध्यायां सर्व उपरिक्रम्य निलीना अन्नभयम् ।
मत्स्यपुराणे ।
"दुर्भिक्षावेदिनो ज्ञेयाः काका धन्यमुखा यदि ।
जनानभिभवन्तीह निर्भया रणवेदकाः"[१]॥
पराशरस्तु ।
धान्ये शिरो निधाय कंम्पयन् पुरीषं वा भक्षयन् दुर्भिक्षाय ।
वराहः ।
[२]अकार्यसंहतैर्भेदो रोधश्चक्राकृतिस्थितैः ।
वर्गगैश्चाभिघातः स्याद्रिपुवृद्धिश्च निर्भयैः ॥
अनिमित्तसंहतैर्ग्राममध्यगैः क्षुद्भयं प्रवाशद्भिः ।
रोधश्चक्राकारैरभिघातो वर्गवर्गस्यैः ॥
अभयांश्च तुण्डपक्षैश्वरणविघातैर्जनानभिभवन्तः ।
कुर्वन्ति शत्रुवृद्धिं निशि विचरन्तो जिनविनाशम् ॥
सव्येन खे भ्रमद्भिः स्वभयं विपरीतमण्डलैश्च परात् ।
अत्याकुलं भ्रमद्भिर्वातोद्भ्रान्तिर्भवति काकैः ॥