शालियवौषधिगोधूमसोमपाक्रन्दविप्राणाम् ॥
सितसुभगतुरगरतिकरयुवतिचमूनाथभोज्य[१]विप्राणाम् ।
शृङ्गिनिशाचरकार्षकयज्ञविदां चाधिपश्चन्द्रः ॥
अथाशुभसूचकचन्द्रलक्षणम् ।
पराशरः ।
खण्डः स्फटितो विवर्णो। वेपनोऽशशाङ्कश्चन्द्रमाः प्रजानाशाय राज्योपप्लवाय च
इति ।
अशशाङ्क इति लक्ष्मरहितः ।
भीष्मपर्वणि कुरुपाण्डवक्षयनिमित्तम् ।
"अलक्ष्य प्रभया हीनः पौर्णमासीं न कार्त्तिकीम् ।
चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णे नभस्तले"[२] ॥
वराहसंहितायाम् ।
भस्मनिभः परुषोऽरुणमूर्त्तिः शीतकरः किरणैः परिहीनः ।
श्यावतनुः स्फुटितः स्फुरणो वःक्षुड्डमरामयश्चौरभयाय ॥
डमर उपप्लवः ।
बृद्धगर्ग:
विलग्नमध्यो नीलाभो वज्रसंस्थानसंस्थितः ।
मध्यच्छिद्रो विलीनाभो भयं कारयते महत् ॥
अथ वर्णफलं भार्गवीये ।
शुक्ले शरीरे सोमस्य ब्रह्मवृद्धिं विनिर्दिशेत् ।
गर्गस्तु ।
शुक्लः स्निग्धः प्रसन्नश्च क्षेमवर्षकरः शशी ।
वृद्धगर्गस्तु ।
दधिशङ्खसवर्णस्तु मुक्ताराशिनिभोऽमलः ।
भ्राजिष्णुरतिसुस्निग्धः क्षेमारोग्यकरः शशी ॥