काको रुवन् दीप्तककुब्विभागे फलानि शस्तानि ददाति सम्यक् ।
तान्येव तुच्छानि ददात्यसौ चेद्दीप्तां दिशं पश्यति दीप्तसंस्थः ॥
यच्चोपदिष्टं फलमत्र दुष्टं तथैव तद्दीप्तदिशि स्थितः सन् ।
ध्वाङ्क्षो विरुक्षं विरुवन् करोति निरीक्षमाणः ककुभं प्रदीप्ताम् ॥
काकः प्रशस्ताभिमुखोऽतितुल्यं दीप्ताश्रितो दुष्टफलं ददाति ।
शान्ताश्रितः शान्तदिगीक्षणेन रूक्षारत्रोऽल्पं कथयत्यनिष्टम् ॥
शान्तारवः शान्तककुष्प्रदेशे तिष्ठन् प्रदीप्तां ककुभं च पश्यन् ।
ददात्यभीष्टं फलमल्पमेव दीप्तारवो यस्तु तदेव पूर्णम ।
आकारचेष्टारवभावविज्ञा दग्धादिकाष्ठादिनयोः प्रमाणे ॥
सदाऽभियुक्ताश्च निरूपयन्ति विदन्ति ते काकरुते मनुष्याः ।
पराशरस्तु ।
पुरस्तात् पूर्वेण क्षीरपुष्पकलावहवृक्षेषु नीडीकरणं क्षत्रियजयाय शुष्कविपरीतषु पराजयाय ।
एतेन वैश्यशूद्रब्राह्मणानां तथा तत्स्त्रीणां दिग्विदिक्षु यथाक्रमं क्षेमाक्षेनं व्याप्यातम् ।
वराहसंहितायाम् ।
वैशाखे निरुपहते वृक्षे नीडः सुभिक्षशिवदाता ।
निन्दितकण्टकिशुष्केष्वसुभिक्षभयानि तद्देशे ॥
नीडे प्राक्शाखायां शरदि भवेत् प्रथमवृष्टिरपरस्याम् ।
याम्यन्तरयोर्मध्ये प्रधानवृष्टिस्तयोरुपरि ॥
बृहद्यात्रायाम् ।
शस्तो नीडस्तु वैशाखे पादपे निरुपद्रुते ।
देशोत्सादस्तु वल्मीके चैत्यधान्यगृहादिषु ॥
वसन्तराजः ।
वैशाखमासे निरुपद्रतेषु स्थानेषु काकस्य शुभाय नीडः ।