त्रिशङ्कुं च ध्रुवं चैव भ्रमन्तश्चक्रवद्यदि ॥
ऋषयो व्योम्नि दृश्यन्ते तदा युद्धमहद्भयम् ।
अयोध्याकाण्डे दशरथमरणनिमित्तम् ।
"बृहस्पतिर्बुधः केतुः सौराङ्गारकभार्गवाः ।
दारुणाः समपद्यन्त ग्रहाः सर्वे प्रदक्षिणाः ॥
नक्षत्राणि हता भान्ति ग्रहाश्चोपहतानि च ।
विशिखाश्च विधूमाश्च नभसि प्रचकाशिरे”[१] ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षयम् ।
अहोरात्रं मया दृष्टं तद्भयाय भविष्यति"[२]॥
तथा ।
"प्रदीप्यमानाः संपेतुर्दिवि सप्त महाग्रहाः"[३] ।
अथ दिव्यनाभसमिश्रकाः । तत्र पराशरः ।
तत्र राहोरदर्शनं केतोश्च मघासु च वक्रातिपीडनं ब्रह्मराशिभेदः केतूल्काग्रहभेदश्न रोहिणीनां सौरेण सप्तर्षिध्रुवेन्दु पीडनं केतोर्वा मरकदर्भिक्षशस्त्रवृष्टिभिः प्रजाक्षयाय ।
भीष्मपर्वणि कुरुक्षयनिमित्तम् ।
"नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः"[४]॥
भार्गवीये ।
वित्रर्णे परिघे वाऽपि त्रिवर्णे वा वलाहके ।
उदयास्तमनं कुर्याद्यदि सूर्यः कदाचन ॥
पृथिव्यां राजवंश्यानां महद्भयमुपस्थितम् ।
लोकक्षयकरं विद्याद्यदि देवो न वर्षति ॥