बार्हस्पत्ये ।
शिलोच्चयानां च शिलाप्रपातो वनद्विपानां च विषाणपातः ।
चैत्यद्रुमाणां न तथैव पातो भयानि राज्ञः प्रतिवेदयन्ति ॥
महोरगाणां च विवर्त्तितानि हुताशनस्य ज्वलनं च तोयात् ।
शक्रध्वजानां च तथैव पातो भयं तु राज्ञः प्रतिवेदयन्ति ॥
प्रासादगोपतिमहीपतिवारणाना-
मिन्द्रध्वजोच्छ्रितवनस्पतिवाजिनां च ।
नैषां भवन्ति पतनानि शुभावहानि
यस्यां दिशि प्रतिभयानि तथोत्तराणि ॥
वराहसंहितायाम् ।
“शक्रध्वजेन्द्रकीलस्तम्भद्वारप्रपातभङ्गेषु ।
तद्वत् कपाटतोरणकेतूनां नरपतेर्मरणम्”[१] ॥
औशनसे ।
नमन्ति यस्य प्रासादाः प्रज्वलन्ति च यस्य वै
दृढानि प्रतिशीर्यन्तं यस्य स म्रियतेऽचिरात् ॥
इन्द्रयष्टिर्भ्रष्टते नाविशस्तो वायुरुद्वजेत् ।
यदा तदा विजानीयाद्राज्ञः पीडामुपस्थिताम् ॥
स्तम्भवृक्षध्वजा यत्र स्रवेयू रुधिरं वसाम् ।
धूमा येषु ज्वलेयुर्वा मन्त्रिणो मृत्युरेव च ॥
बार्हस्पत्ये ।
गिरिवरपतनं सभूमिचालं प्रतिभविता शयनस्थितान् मनुष्यान् ।
मृगशकुनिगणाश्च दीप्तवाची महति भये सुसमुपस्थिते भवन्ति ।।
आबालवत्सा पुरचत्वरेषु गावो यदा दीष्ठरवा भवन्ति ।
शृगालनादाश्च भवन्ति दीप्ता तदा भयं वेदविदो वदन्ति ॥
- ↑ अ. पुस्तकेऽस्यानुपलब्धैर्वटकणिकायाः सम्भाव्यते ।