“तुमुलाश्च ववुर्वाता जज्वलुर्न च पावकाः ॥
प्रतिस्रोतो ययुर्नद्यो दिशश्चैव प्रधूमिताः ।
उल्काः पतेयुरुद्धूता निर्घाताश्च पतन्त्युत"[१] ॥
स्कन्दपुराणे हिरण्याक्षवधनिमित्तम् ।
सिद्धाः पेतुरथादित्यादृेवाश्च भयमाविशन् ।
सागराश्च चुक्षुभिरे विरेजुर्नगपक्षिणः ॥
भयत्रस्तानि भूतानि उल्का: पेतुर्नभस्तलात् ।
मौशले वृष्णिक्षयनिमित्तम् ।
"प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः”[२] ।
भागवते कृष्णोत्क्रान्तिनिमित्तम् ।
"धूमा दीप्ताः सपरिघाः कम्पते भूस्तलादिभिः ।
निर्घातस्तु महाँस्तात साकं च स्तनयित्नुभिः ॥
सभूतलं भूतगणैर्ज्वलिते इव रोदसी"[३] ।
सभापर्वणि पाण्डववनप्रवेशे कुरुक्षयनिमित्तम् ।
"अनभ्रे विद्युतश्चासन् भूमिश्च समकम्पयत्"[४]
उद्योगपर्वणि भीष्माभिषेके भीष्मवधनिमित्तम् ।
“निर्घाताः पृथ्वीकम्पो गजबृंहितनिस्वनाः ।
आसँश्च सर्वयोधानां पातयन्तो मनांस्युत ॥
वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे”[५]।
मयूरचित्रे ।
गोधा च नकुलश्चैव सर्पो वनपशुस्तथा ।
विशन्ति भवने यत्र युध्यन्ति वृषभास्तथा ॥
बालाश्चैव विनश्यन्ति वृष्टिः सिन्दूरवर्णवत् ।