वराहसंहितायाम् ।
पूर्वोद्भूतैः शस्यसम्पत्तिरब्दैराग्नेयाशासंभृतैरग्निकोपः ।
याम्ये शस्यं क्षीयते नैर्ऋतेर्धं पश्चाज्जातैः शोभना वृष्टिरब्दैः ॥
वायव्योत्थैर्वायुवृष्टिः क्व चिच्च पुष्टा वृष्टिः सौम्यकाष्ठासमुत्थैः ।
पुष्टं स्थाणुदिक्प्रसंप्रवृद्धैर्वायुश्चैवं दिक्षु धत्ते फलानि ॥
उल्कानिपातास्ताडितोऽशनिश्च दिग्दाहनिर्घातमहीप्रकम्पाः ।
नादा मृगाणां सपतत्रिणां च ग्राह्या यथैवाम्बुधरास्तथैव ॥
नामाङ्गतैस्तैरुदगादिकुम्भैः प्रदक्षिणं श्रावणमासपूर्वैः ।
पूर्णैः समासः सलिलस्य दाता स्रुतैरवृष्टिः परिकल्प्यमूनैः ॥
नामाङ्कितैरित्यनेनैतदुक्तं भवति । रोहिणीप्रवेशसमये उदक्पूर्वदक्षिणपश्चिमासु दिक्षु अव्रणाश्चत्वारो जलपूर्णकुम्भा रोहिणीसमाप्तिं यावत् स्थापयितव्याः । तत उत्तरकुम्भे संपूर्णजले तिष्ठति श्रावणे सम्यग्वृष्टिर्भवति । शुष्के जलेऽनावृष्टिः । मध्येऽनुपातः । एवं पूर्वादिकुम्भैर्भाद्रादिषु वृष्टिर्ज्ञातव्या ।
अन्यैश्च कुम्भैर्नृपनामचिह्नैर्देशाङ्कितैश्चाप्यपरैस्तथैव ।
भग्नैः स्रुतैर्न्यूनजलैः सुपूणैर्भाग्यानि वाच्यानि यथानुरूपम् ॥
गोप्रवेशसमये वृषोऽग्रतो याति कृष्णपशुरेव वा पुरः ।
भूरि वारि शबले तु मध्यमं नो सितेऽम्बपरिकल्पनाऽपरैः ॥
पराशरस्तु ।
अथास्तमयवेलायां पुरद्वारमभिगम्य निमित्तान्युपलक्षयेत् । तत्र गोगजाश्वरथप्रथमप्रवेशेषु विजयो वानरखरोष्ट्रनकुलमार्जाराश्वप्रवेशे विद्रवो नेत्रांङ्गहीनेष्वशनिभयम् ।
नवोद्गीतविधातृणां बहिर्नद्याः पुराद्बहिः ।
बालानां क्रीडनं यत्र तत्र नास्ति व्यतिक्रमः ॥
दिव्यान्तरिक्षभौमानामुत्पातानां समुद्भवे ।
रोहिण्यां चन्द्रयुक्तायां भवेत् तीव्रतरं फलम् ॥