पृष्ठम्:अद्भुतसागरः.djvu/७३१

पुटमेतत् सुपुष्टितम्
७२५
मिश्रकाद्भुतावर्त्तः ।

सिन्दूरवर्णसदृशी वृष्टिर्वाऽऽकाशात् पतति रुधिरवृष्टिरङ्गणे निपतति काञ्जिकमूर्ध्वमुद्वमति कम्पते वा विद्यान्मरणकृतं भयं भवति ।

 याम्यस्थालीपाकं श्रपयित्वा -यमाय स्वाहा । यम इदं शमयतु स्वाहा । वैवस्वताय स्वाहा ।

 यमेन दत्तं त्रित[] -स्थालीपाकस्य द्वे हुत्वा सावित्र्या त्रिरुपरिष्टादाज्येन जुहुयात् । शर्मासमिधामयुतं जुहुयात् ।

 असि यमो -[]इति मन्त्रेण चतुर्विधां दक्षिणां दद्याद्गां भूमिं हिरण्यं धान्यं च ततः संपद्यते शुभमिति ।

 या पश्चिमां दिशमन्वावर्त्तते सा वरुणमन्वावर्त्तते । मृदालाङ्गलं भिद्यते लाङ्गलेषु वा मृदनुदको वा लोष्टकानिऽवाकारणमुदकशोषस्तथैवानुदकेषूदकं वापीकूपतडागानामपानीयं नदीकूपवापीपुष्करणीष्वकारणं घटा उत्तिष्ठन्ति अकाले पर्जन्यो वर्षतीतिमण्डूका व्याहरन्ति कर्कटा वा गृहात् पतन्ति क्रौञ्चः पतति भूमौ मधुकराः पतन्ति गृहे वल्मीका जायन्ते उत्किरन्ति वा दधितैलक्षीरकुम्भैः स्रवन्ति दर्वी सीदति मन्थानी मथ्यमाना व्याहरति स्थूणाप्ररोहति रुधिरं प्रस्त्रवति स्थूणायां शाखा जायते हस्तिनी माद्यति हस्थिदन्ता भिद्यन्ते गावो भाद्रपदे प्रसूयन्ते हस्तिनी नगरे प्रसूयते वडवा गौर्दासी भार्या युगलं प्रसूयते वनस्पतयो भिद्यन्ते गोः शृङ्गाणि भिद्यन्ते इक्षवः पुष्पन्ति । अकाले माद्यन्ति सोमा अतिरज्यन्ते चालवृक्षाः पुष्पन्ति फलन्ति वा इत्येतानि वरुणदेवताकान्यद्भुतानि दृष्ट्वा प्रभुवधं वदेत् ।

 वारुणं चरुं कृत्वा-वरुणाय स्वाहा । वरुण इदं शमतु स्वाहा । अद्भ्यः स्वाहा []


  1. वाजसनेयिसंहितायाम् २९ अ. १३ क ।
  2. वासजनेयिसंहितायाम् २० अ. १४ क ।
  3. अप्पतये स्वाहा इति क्व चित् पा ।