पृष्ठम्:अद्भुतसागरः.djvu/७३५

पुटमेतत् सुपुष्टितम्
३२९
मिश्रकाद्भुतावर्त्तः ।

 भुवनानामभिश्रियोर्वी'-अभित्य देवं सवितारमण्यो-अग्निदूतं वृणीमहे वातवा आवातभेषजं सोमं राजानं वरुणमिदं विष्णुविर्चक्रमे इत्येतानि सामान्यष्टशतं जपित्वा स्वस्ति वाचयित्वा स्वस्तिवाचनंहैषां भवति स्वस्त्ययनं तार्क्ष्यमरिष्टनेमिरित्यपुवाजिनं देवज्ञतमायुर्विश्वायुः शतं जीव शरदो वर्धमान इत्येतैः सम्भाराणामुपस्थापनं कृत्वा स्वस्ति वाचयित्वा स्वस्ति हैषां भवति स्वस्ति हैषां भवति देवाश्व असुराश्चेषु लोकेषु स्पर्धन्ते देवाः प्रजापतिमुपाधानास्तेभ्य एतां दैवीं शान्ति प्रयच्छत्येतच्छन्त्यैकया असुरानभ्यजनयँस्ततो देवा अभवन् सुराभवत्यात्मना परस्य भ्रातृभ्यो भवति य एवं वेद ।

 अथ पूर्वाह्ण एव प्रातराहुतिं हुत्वा दर्भान् वीरसान् सर्विषा फलवतोमपामार्गशिरीषमित्येतान्याहरेदाहारयेद्वास्नातः प्रयतः शुचिः शुचिवासाः स्थण्डिलमुपलिप्य प्रोज्ज्वललक्षणमुपलिप्य आलिख्याद्भिरभ्युक्ष्याग्निमुपसमाधाय नित्यतनोदनकुशरयवागूरत्नपायसदधिक्षिस्तृतपायसमिति घृतोत्तराः पृथक् पृथक् चरवः सर्वेषां वा पायसाः ।

 स प्राचीं दिशमन्वावर्त्तते । अथ यदाऽस्य मणिमणिककुम्भानां दरणमनायासो राजकुलविवादो वा यानच्छत्रशय्यासनावसथध्वज गृहैकदेशप्रभञ्जनेषु गजवाजिमुख्या वा प्रम्रियन्ते इत्येवमादीनि तानीन्द्रदैवतानि तत्र प्रायश्चित्तानि भवन्ति ।

 इन्द्रायेन्दो मरुत्वते-[]इति स्थालीपाकं हुत्वा पञ्चमिशज्यापुतिभिर्जुहोति ।

 इन्द्राय स्वाहा । शचीपतये स्वाहा । वज्रपाणये स्वाहा । ईश्वराय स्वाहा । सर्वपापप्रशमनाय स्वाहा -इति व्याहृतिभिर्हुत्वा साम गायेत् ।


  1. ऋग्वेदसंहितायाम् ७ अष्टके ३ अ. ६४ सू. २२ ऋक् ।