पृष्ठम्:अद्भुतसागरः.djvu/७३८

पुटमेतत् सुपुष्टितम्
७३२
अद्भुतसागरे ।

 स दिवमन्त्रावर्त्तते । अथ यदाऽस्य तारावर्षाणि चोल्काः पतन्ति धूमायन्ते दिशो दह्यन्ते के अत्र उत्तिष्ठन्ति गवां श्रृंङ्गेषु धूमा जायन्ते गवां स्तनेषु रुधिरं स्रवत्यत्यर्थं हिमं निपतटीत्येवमादीनि सर्वाणि सोमदैवतान्यतानि तत्र प्रायश्चित्तानि भवन्ति ।

 सोमं राजानं वरुणम्-[१]इति स्थालीपार्क हुत्वा पञ्चभिराज्यहुतिभिजुहोति ।

 सोमाय स्वाहा । नक्षत्रपतये स्वाहा । शीतपाणये स्वाहा । ईश्वराय स्वाहा। सर्वपापप्रशमनाय स्वाहा ।इति व्याहृतिभिश्च हुत्वा साम गायेत् ।

 स परां दिवमन्वावर्तते । अथ यदाऽस्यायुक्तानि यानानि-भज्यन्ते देवताप्रतिमा हसन्ति रुदन्ति गायन्ति नृत्यन्ति स्कुटन्ति स्विद्यन्ति उत्पतन्ति उन्मीलन्ति प्रतीपं प्रयान्ति नद्यः कबन्ध आदित्य दृश्यते विजने न परिदृश्यते केतुपताका च्छत्रचामरवज्रविषाणानि प्रज्वलन्त्यश्वानां बालधिष्वङ्गाराः क्षरन्ति निहतानि मर्माणि अतिक्रामन्ते इत्येवमादीनि तान्येतानि सर्वाणि विष्णुदैवत्यान्यद्भुतानि तत्र प्रायश्चित्तानि भवन्ति ।

 इदं विष्णुर्विचक्रमे[२]इति स्थालीपाकं हुत्वा पञ्चभिराज्याहुतिभिर्जुहोति ।

 विष्णवे स्वाहा। सर्वभूताधिपतये स्वाहा । चक्रपाणये स्वाहा । ईश्वराय स्वाहा। सर्वपापप्रशमनाय स्वाहा । इति व्याहृतिभिश्च हुत्वाऽथ साम गायेत् ।
सामविधानं ब्राह्मणे ।

 अद्भुते य एवं जुहुयात् 'वात आवातु भेषजम्' इत्यनेन शाम्यति इह कृष्णाँस्तिलानग्नौ जुहुयात् । प्रथमं देवो अग्निः [३]इत्येतेनैव ।


  1. ऋग्यजुः सहितयोर्नोपलभ्यतेऽन्यत्रान्वेषणीयोऽयं मन्त्रः ।
  2. वाजसनेयसंहितायाम् ३३ अ. ४५ क. ।
  3. वाजसनेयसंहियायाम् २८ अ. २२ क. ।