पृष्ठम्:अद्भुतसागरः.djvu/७४

पुटमेतत् सुपुष्टितम्
३५
चन्द्राद्भुतावर्त्तः ।

 प्रीतिश्च निर्निमित्तं मतुजपतीनां सुभिक्षं च ॥

वृद्धगर्गस्तु ।

 उत्तरं शृङ्गमुद्यम्य नीचं यद्यस्य दक्षिणम् ।
 कुरुतें लाङ्गलस्थानं चन्द्रमाः शुभदर्शनम् ॥
 तस्मिन् क्षेमं सुभिक्षं च स्थाने भवति लाङ्गले ।
 अनामयं प्रजानां च राज्ञां च विजयो भवेत् ॥
 पूर्वाणामुत्तराणां च विनिर्देश्यस्तदा जयः ।
 [१]बहुक्षत्रविवृद्धिं च दिशं हन्याच्च दक्षिणाम् ॥

भार्गवीये ।

 रूप्याभो लाङ्गलस्थायी श्रीमान् संलक्ष्य मण्डलः ।
 पक्षादौ यदि दृश्येत ब्रह्मक्षत्रसुखावहः ॥

वृद्धगर्गस्तु ।

 रूप्याभो लाङ्गलस्थायी ब्रह्मक्षत्रसुखावहः ।
 कुङ्कुमाभो मरणदो हरिद्राभस्तथैव च ॥

यत् तु ।

 लाङ्गली ग्रसते लोकान् युगान्तं प्रतिपादयेत् ।

इति भार्गवीयवाक्यं तद्दुष्टलाङ्गलपरम् ।
गर्गः ।

 यदा सोमः प्रतिपदि नौस्थायी संप्रदृश्यते ।
 उत्तरोज्ज्वलशृङ्गो वा लाङ्गली वा मनोहरः ॥
 क्षेमं सुभिक्षमारोग्यं सर्वभूतेषु निर्दिशेत् ।
 राज्ञां च विजयं ब्रुयाद्वर्धन्ते शृङ्गणस्तथा ॥

अथ मृदङ्गः । वराहसंहितायाम् ।

 चन्द्रो मृदङ्गरूपः क्षेमतुभिक्षावहो भवति ।


  1. ब्रह्मक्षत्र-इति सर्वसम्मतः पाठः ।