बृहत्संहितायाम् ।
उदयशिखरिसंस्थो दुर्निरीक्ष्योऽथ दीप्त्या-
ऽद्भुतकनकनिकाशः स्निग्धवैडूर्यकान्तिः ।
तदहनि कुरुतेऽम्भस्तोयकाले विवस्वान्
प्रतपति यदि चोच्चैः खं गतोऽतीव तीक्ष्णम् ॥
तथा ।
विगतघने वा विग्रति विवस्वानमृदुमयूखः सलिलकृदेव ।
सर इव फुल्लं निशि कुमुदाढ्यं खमुडुविशुद्धं यदि च सुवृष्ट्यै ॥
विरसमुदकं गोमूत्राभं वियद्विमला दिशो
लवणविकृतिः काकाण्डाभं यदा च भवेन्नभः ।
पवनविगमः पोप्लूयन्ते झषाः स्थलगामिनो
रसनमसकृन्मण्डूकानां जलागमहेतवः ॥
मार्जारा भृशमवनिं नखैर्लिखन्तो
लोहानां मलनिचयः सविस्रगन्धः ।
रथ्यायां शिशुरचिताश्च सेतुबन्धाः
संप्राप्तं जलमचिरान्निवेदयन्ति ॥
गिरयोऽञ्जनचूर्णसन्निभा यदि वा वाष्पनिरुद्धकन्दराः ।
कृकवाकुविलोचनोपमाः परिवेषाः शशिनश्च वृष्टिदाः ॥
विनोपघातेन पिपीलिकानामण्डोपसंक्रान्तिरहिव्यवायः ।
द्रुमाधिरोहश्च भुजङ्गमानां वृष्टेर्निमित्तानि गवां प्लुतं च ॥
“भेकाः शिरांसि दधति स्फुटपुण्डरीक-
मालाप्रभान्यविरलं स्फुटमुद्गिरन्ति ।
तेभ्योऽम्भसां भुवि पतन्ति मृणालजाल-
नीहारहारहरहाससिताः प्रवाहाः ॥