पृष्ठम्:अद्भुतसागरः.djvu/७८

पुटमेतत् सुपुष्टितम्
३९
चन्द्राद्भुतावर्त्तः ।

 पौरं जनपदं चात्र ज्वरदाहश्च जायते ॥

गर्गस्तु ।

 उद्युक्तदण्डा राजानो विमिहन्युः समन्ततः ।
 गवां पीडां विजानीयाद्दण्डस्थायी यदा शशी ॥

गार्गीये तु ।

 उदितो दण्डवच्चन्द्रो गवां पीडाकरः स्मृतः ।
 उग्रदण्डाश्च राजानो विनिघ्नन्ति परस्परम् ॥

अथ वज्रः । वराहसंहितायाम् ।

 मध्यतनुर्वज्राख्यः क्षुद्भयकृत् संभ्रमाय राज्ञां च ।

वृद्धगर्गः ।

 राज्ञां भयमसौ तीक्ष्णं विदध्याद्वज्रविग्रहः ।

अथ युगम् । तत्र गर्गवृद्धगर्गौ ।

 चन्द्ररेखा यदा व्यक्ता दक्षिणोत्तरमायता ।
 शुक्लादौ प्रतिदृश्येत तद्युगस्थानलक्षणम् ॥

गर्गः।

 सेनोद्योगा भवन्त्यत्र भूमिकम्पश्च जायते ।

पराशरस्तु

 युगसंस्थानजगद्विद्रवभूकम्पाय ।

गागीये तु ।

 सेनोद्योगो भवत्यत्र दुर्भिक्षं भूमिकम्पनम् ।
 नानाविधैर्व्याधिभिश्च तदा संक्षीयते प्रजा ॥

अथ पार्श्वशयनम् । तत्र गर्गः ।

 याम्यकोट्यायतः किञ्चिद्युगाकारो यदा शशी ।
 पार्श्वशायीति स ज्ञेयः सार्थहा वृष्टिकारकः ॥

याम्यकोट्यायतः किञ्चिदिति याम्यकोट्या किञ्चिदुन्नतः ।
तथा वराहसंहितायाम् ।

 युगमेव याम्यकोट्यां किञ्चित् तुङ्गं स पार्श्वशायीति ।