पृष्ठम्:अद्भुतसागरः.djvu/८०

पुटमेतत् सुपुष्टितम्
४१
चन्द्राद्भुतावर्त्तः ।

 सागराँस्तिरजाँश्चैव समुद्रे ये तु दक्षिणे ॥
 एताञ्जनपदान् हन्ति यदि स्यादुत्तरोन्नतः ।
 काश्मीरान् दरदान् दर्भान् शूरसेनान् पटच्चरान् ॥
 शाल्वाँश्च विरजाँश्चैव समुद्रे ये च पश्चिमे।
 एताञ्जनपदान् हन्ति यदा स्याद्दक्षिणोन्नतः ॥

समासाद्य यदा ग्रहमिति भूम्यावरणानन्तरितप्रथमदर्शनव्यावृत्त्यर्थम् ।
चन्द्रस्योदयसमये त्वयनरेखातः समोत्तरवर्त्तिनोः समदक्षिणवर्त्तिनोर्वा भिन्नायनस्थयोः सूर्याचन्द्रमसोः समशृङ्गता भवति तत्फलम् ।
वटकणिकायाम् ।

 समः समः-इति ।

उदयदिनसमानि सुभिक्षादीनि तस्मिन् मासे करोतीति समः ।
तथा च गर्गः ।

 समशृङ्गो यथा दृश्यः शशी क्षेमसुभिक्षदः ।
 प्रतिपत्सदृशं तत्र वासवो वर्षते तदा ॥

प्रतिपत्सदृशमित्युभयत्र सम्बध्यते । प्रतिपत्सदृशक्षेमसुभिक्षदः शशी भवति वासवश्च प्रतिपत्सदृशं वर्षतीति ।
तथा च वराहसंहितायाम् ।

 समशशिनि सुभिक्षक्षेमवृष्टयः प्रथमदिवससदृशाः स्युः ।

एकायनस्थयोस्तु रविचन्द्रमसोः समशृङ्गचन्द्रोदये विकृतिस्तत्फलमशुभमेष ।
तथा च पराशरः ।

 समोभयशृङ्गः समस्थान इन्दुर्महाभयकृत् ।

वृद्धगर्गः ।

 पीतकच्छन्नसंस्थाने एकशृङ्गे त्वशृङ्गके।
 रोगदुर्भिक्षशस्त्राणि प्राणिनां च पराभवः ॥

पराशरः ।

 अथैतानि शक्लप्रतिपदि द्वितीयायां वा लक्षणानि भवन्ति ।

एतानीति संस्थानानि ।