अथ खांशफलम् । तत्र दृश्यनभोभागं त्रिधा विभज्य फलमुक्तं भार्गवीये ।
यौवनस्थाँश्च पूर्वाह्णे हन्ति यज्ञविदाञ्जनान् ।
औदकानि च सत्त्वानि नागेन्द्रश्चात्र दुःखितः ॥
अथ मध्यपथं प्राप्तः शूद्रान् हन्ति सतस्करान् ।
उपरक्तो नृपं हन्ति चन्द्रश्च वरवारणात् ॥
प्रलम्बः प्रमदां हन्ति क्षत्रं राष्ट्रं च सर्वशः ।
त्रिगर्त्ताश्चात्र पीड्यन्ते मत्स्याश्च कुरवो जनाः[१]॥
वटकणिकायाम् ।
पीडयति विप्रराजन्यसत्रिनृपवैश्यशूद्रदस्युगणान् ।
खांशेष्वसुरः सप्तसु दृष्टो नष्टः शिवायोक्तः ॥
वृद्धगर्गस्तु ।
गवां तु प्रथमं क्षेत्रं द्वितीयं ब्रह्मवादिनाम् |
क्षत्रियाणां तृतीयं स्यान्मध्यमं सार्वलौकिकम् ॥
पञ्चमं पुरवैश्यानां षष्ठं स्याच्छूद्रयोषिताम् ।
सर्वासामन्त्यजातीनां सप्तमं क्षेत्रमुच्यते ॥
येषां सोमो युगे ग्रस्तो विमर्दो यत्र वा भवेत् ।
तेषां पीडां विजानीयान्मोक्षे क्षेममथादिशेत् ॥
काश्यपस्तु ।
प्रथमांशे विप्रप्रीडा क्षत्रियाणां द्वितीयके ।
तृतीये चान्त्यजानां तु चतुर्थे मध्यदेशजान् ॥
वैश्यानां पञ्चमे खांशे षाष्ठांशे प्रमदाभयम् ।
दस्युप्रत्यन्तिकान् म्लेच्छान् नाशयेत्[२]सप्तमांशके ॥
येषामंशे भवेन्मोक्षस्तजातीनां शुभं वदेत् ।