काश्यपः ।
पायुभेदगतो राहुर्वायव्यो निर्ऋताश्रयः ।
गुदरोगभयं विन्द्याद्वामे राज्ञीभयं भवेत् ॥
वायव्यो मोक्षो पायुभेदो नैर्ऋत्यो दक्षिणः । उभयोरेव गुदारोगफलं पायुभेदत्वात् । वामे तु राज्ञीभयमधिकम् ।
तथा च वराहसंहितायाम् ।
नैर्ऋतवायव्यस्थौ दक्षिणवामौ तु पायुभेदौ द्वौ ।
गुह्यरुगल्पा वृष्टिर्द्वयोस्तु राज्ञीक्षयो वामे ॥
काश्यपः ।
ग्रासो मोक्षो यदा पूर्वे छर्दनं तु तदा भवेत् ।
क्षेमहार्दिप्रदो जेयः शस्यनिष्पत्तिकारकः ॥
वराहसंहितायां च ।
पूर्वेण प्रग्रहणं कृत्वा प्रागेव चापसर्पेत ।
संछर्दनमिति तत् क्षेमशस्य हार्दिप्रदं जगतः ॥
काश्यपः ।
पूर्वेण ग्रसते राहुरपरस्यां विमुञ्चति ।
क्षुत्तस्करभयं[१] तत्र मोक्षस्तु जरणं स्मृतम् ॥
वराहसंहितायां च ।
प्राक् प्रग्रहणं यस्मिन् पश्चादपसर्पणं तु तज्जरणम् ।
क्षुच्छस्त्रभयो द्विग्ना न शरणमुपयान्ति तत्र जनाः ॥
मध्ये यदि प्रकाशस्तन्मध्यविदारणं नाम ।
अन्तःकोपकरं स्यात् सुभिक्षदं नातिवृष्टिकरम् ॥
तदिति वृष्टिकरं सुभिक्षदं न भवति । दुर्भिक्षमेव करोतीत्यर्थः ।
तथा च काश्यपः ।
यदा प्रकाशते मध्ये दुर्भिक्षमरकौ तदा ।
पराशरेण चाऽस्य शरच्छत्यनाशकत्वमात्रमुक्तम् । तद्वचनं प्रागेव लिखितम् ।
- ↑ क्षुधाशस्त्रभयम् इति वराहसम्मतः पाठः ।